| YouTube Channel

आमलकी (AmalakI)

 
Spoken Sanskrit
English
आमलकी AmalakI
f.
Indian gooseberry [ Phyllanthus emblica - Bot. ]
Monier Williams Cologne
English
आमलकी
cf.
RTL.
339
568
Apte Hindi
Hindi
आमलकी
स्त्री*
- आ+मल्+वुन्-स्त्रियां ङीप्
आँवले का वृक्ष
Shabdartha Kaustubha
Kannada
आमलकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೆಲ್ಲಿಮರ
निष्पत्तिः - > + मल (धारणे) - "क्वुन्" (उ० २-३२) जाति "ङीष्" (४-१-६३)
व्युत्पत्तिः - > आमलते
E Bharati Sampat
Sanskrit
(स्त्री) आमलते आ+मल(धारणे)+क्वुन्+ङीष् ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ उ०२.३२। ‘जातेरस्त्री विषयादयोपधात्’ ४.१.६३। धात्रीवृक्षः।
Anekartha-Dvani-Manjari
Sanskrit
शिवा
स्त्री
शिवा, गौरी, अभया, कील, क्रोष्ट्री, आमलकी, स्नुषा
शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाभया
शिवा कीलः शिवा क्रोष्ट्री भवेदामलकी शिवा
शिवः शर्वः शिवः शुक्लः शिवः कीलः शिवः पशुः
शिवा गौरी शिवा क्रोष्ट्री शिवं श्रेयः शिवा स्नुषा
verse 1.1.1.4
page 0001
धात्री
स्त्री
धात्री, धातकी, आमलकी, वसुन्धरा, स्तनदायिनी
धातकी प्रोच्यते धात्री धात्री चालमकी मता
धात्री वसुन्धरा ज्ञेया धात्री स्यात् स्तनदायिनी ६७
verse 1.1.1.67
page 0005
Wordnet
Sanskrit
Synonyms:
आमलकी, तिष्यफला, अमृता, वयस्था, वयःस्था, कायस्था, श्रीफला, धात्रिका, शिवा, शान्ता, धात्री, अमृतफला, वृष्या, वृत्तफला, रोचनी, कर्षफला, तिष्या
noun
फलवृक्षविशेषः यस्य फलानि औषधरूपेण उपयुज्यन्ते।
"झञ्जावाते अस्य आमलकेः एका शाखा भग्ना।"
Sanskrit Tibetan
Tibetan
skyu ru ra
१) अम्बल २) अम्लक ३) आमलक ४) आमलकी ५) तिष्यफला ६) रुचक
khrag 'thung
१) अस्रप २) आमलकी ३) रक्तप ४) हेरुक
bcu drug bdag po
आमलकी / पण्चरसा
skyu ru ra
आमलकी / पण्चरसा
bcud lnga pa
आमलकी
skyu ru ra
आमलकी
अभिधानचिन्तामणिः
Sanskrit
--source--
धात्री शिवा चामलकी कलिरक्षो बिभीतकः ११४५
-wordlist-
धात्री (स्त्री), शिवा (स्त्री), आमलकी (स्त्री), कलि (पुं), अक्ष (पुं), बिभीतक (त्रि)
अभिधानरत्नमाला
Sanskrit
धात्री
धात्री, आमलकी, शिवा
हरीतक्यभया पथ्या धात्री चामलकी शिवा
verse 2.1.1.618
page 0069
अमरकोशः
Sanskrit
Word: आमलकी
Root: आमलकी
Gender: स्त्री
Number: all
Meaning(s):
Indian gooseberry [Phyllanthus emblica - Bot.]
Shloka(s):
2|4|57|2 शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु॥ (वनौषधिवर्गः)
2|4|58|1 अमृता वयस्था त्रिलिङ्गस्तु बिभीतकः॥ (वनौषधिवर्गः)
3|3|177|1 धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि। (नानार्थवर्गः)
Synonym(s):
2|4|57|2 तिष्यफला (तिष्यफला) (स्त्री)
2|4|57|2 आमलकीः (आमलकी) (पुं)
2|4|57|2 आमलकी (आमलकी) (स्त्री) Indian gooseberry [Phyllanthus emblica - Bot.]
2|4|57|2 आमलकि (आमलकी) (नपुं) Indian gooseberry [Phyllanthus emblica - Bot.]
2|4|58|1 अमृताः (अमृता) (स्त्री) goddess, spirituous liquor, holy basil [Ocimum tenuiflorum - Bot.], Indian long pepper [Piper Longum - Bot.], Indian gooseberry [Emblica Officinalis - Bot.], Heart-Leaved Moonseed [Cocculus cordifolius - Bot.], kind of myrobalan tree [Terminalia Citrina Roxb. - Bot.]
2|4|58|1 वयःस्था (वयःस्था) (स्त्री)
3|3|177|1 धात्री (धात्री) (स्त्री) nurse, earth, mother, midwife, wet nurse, foster-mother, female supporter, Indian gooseberry [Emblica Officinalis - Bot.]
Related word(s):
अवयव_अवयवीसंबन्धः हरीतक्यामलकविभीतक्यां_समाहारः
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
आमलकी,
स्त्री,
(आङ् + मल + क्कन् + जातेरितिङीष् ।) स्वनामख्यातफलवृक्षविशेषः आमलाइति भाषा तत्पर्य्यायः तिष्यफला अमृता ३वयस्था वयःस्था कायस्था इत्यमरस्त-ट्टीका
श्रीफला धात्रिका शिवा ९शान्ता १० धात्री ११ अमृतफला १२ वृष्या १३वृत्तफला १४ रोचनी १५ इति राजनिर्घण्टः
कर्षफला १६ तिष्या १७ इति रत्नमाला
अस्या गुणाः हरीतकीगुणवद्गुणत्वं विशे-षेण शुक्रकारित्वं शीतवीर्य्यत्वं अम्लत्वात् वायु-नाशित्वं शैत्यमाधुर्य्यात् पित्तनाशित्वं कषाय-रूक्षत्वात् कफनाशित्वं सर्व्वफलाधिकगुणत्वं ।भोजनाद्यमध्यान्ते प्राशस्त्यं निरत्ययत्वं दोष-हरत्वञ्च
अस्य मज्जगुणाः तृष्णाच्छर्दिकफ-वायुनाशित्वं लघुत्वं कषायत्वं बलकारित्वञ्च ।इति राजवल्लभः
अपि लघुत्वं दाहवमि-मेहशोषनाशित्वं रसायनत्वं कटुत्वं रुचि-करत्वं रक्तदोषनाशित्वं श्रमविबन्धाध्मान-विष्टम्भदोषप्रशमनकारित्वञ्च अस्य मज्जनोविभीतकमज्जवद्गुणत्वञ्च इति राजनिर्घण्टः
(अस्या नामानि गुणाश्च ।“त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता ।हरीतकीसमञ्जात्रीफलं किन्तु विशेषतः
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ।हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः
कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ।यस्य यस्य फलस्येह वीर्य्यं भवति यादृशं
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत्” ।इति भावप्रकाशः
“तान् गुणांस्तानि कर्म्माणि विद्यादामलकीष्वपि ।यान्युक्तानि हरीतक्यां वीर्य्यस्य तु विपर्य्ययः” ।इति धरकः
)तच्छुष्कफलगुणाः कफपित्तनाशित्वं अम्लत्वं ।स्वादुद्रव्यद्वारा पाके पित्तनाशित्वञ्च इति राज-वल्लभः
तस्या उत्पत्तिर्यथा सख्यावूचतुः ।“उक्तस्त्वया महेशानि तुलसीविल्वसम्भवः ।अनयोस्तुल्य एकः कः शिवविष्णुप्रियस्तरुः
तदावां श्रोतुमिच्छावः शिवसुन्दरि कथ्यतां” ।देव्युवाच ।“अस्ति विल्वतुलसीतरुतुल्यःपुण्य एक उत विष्णुशिवार्हः ।नामतोऽमलक इत्यपि सख्यौरोपितः कमलयाथ मयापि
कदाचित् देवयात्रायां प्रभासे पुण्यतीर्थके ।सर्व्वे देवाः समायाता दिने पुण्ये कुत्रचित्
तत्राहञ्च स्वयं लक्ष्मीरेकस्थाने समागते ।तत्रावयोर्मतिर्जाता शिवविष्णुप्रपूजने
अहं श्रियमवोचञ्च सामुद्रि शृणु मे मतिं ।स्वकल्पितेन द्रव्येण पूजयेऽहं हरिं प्रभुं
मामुवाच ततो लक्ष्मीर्गद्गदाक्षरभाषिणी
ममाप्येवं मतिर्जाता त्वमवोचः स्वयं यथा ।स्वकल्पितेन द्रव्येण पूजयेऽहं त्रिलोचनं”
देव्युवाच ।“सजये विजये देवि ! नावेवम्भूतयोस्तदा ।नयनेषु सुजातानि अमलाश्रुजलानि
तानि नौ नयनेभ्यश्च निपेतुर्मुवि हे सखि ! ।ततो जाता द्रुमाः पृथ्व्यां चत्वारो विमलप्रभाः
ख्याता आमलकी नाम्ना जाता कादमलाद्यतः ।श्यामलच्छदवृन्दास्ते कर्व्वूरस्कन्धमूलकाः
शिराग्रथितपत्राली पत्रमालाकपत्रका ।विल्वस्य तुलस्याश्च ये गुणाः कथिताः सखि
ते ते गुणाः सर्व्वएव आमलक्यां समाहिताः ।पत्रमालादलैरस्याः शिवविष्णु सुरेश्वरौ
सर्व्वथा पूजितौ स्यातां सख्यौ नास्त्यत्र संशयः ।माघे मासि सितायां तामेकादश्यां समुद्भवां
शुभामामलकीं दृष्ट्वा समेताः सर्व्वदेवताः ।ऋषयस्ते सशिष्याश्च हर्षमापुः परं तदा
शिवाच्युबस्वरूपाञ्च ददृशुस्तुष्टुवुस्तदा”
*
अस्या नमस्कारमन्त्रादिः ।“नमाम्यामलकीं देवीं पत्रमालाद्यलङ्कृतां ।शिवविष्णुप्रियां दिव्यां श्रीमतीं सुन्दरप्रभां
एतेन खलु मन्त्रेण सर्व्वा अस्याः क्रिया मताः ।एतामुद्दिश्य तीर्थानि त्रीण्युक्तानि मनीषिभिः
विल्ववृक्षवदेवेह पृथिव्यां कर्म्मणां स्थले ।सिषित्तुस्तामामलकीं सर्व्वतीर्थजलैर्द्विजाः
अथ सर्व्वसुराणाञ्च मुनीनाञ्च तदाग्रतः ।मया संपूजितः कृष्णः श्रीश्च शम्भुमपूजयत्
तदा जयजयध्वानो बभूव क्षितिमण्डले ।आकाशे पुष्पवृष्टिश्च शङ्खशब्दाश्च पुष्कलाः
दृष्ट्वा ह्यामलकी देवी दधारानन्दमुत्तमं ।तेन धात्रीति नाम्नापि राजत्यामलकी शुभा
नमस्कृत्य ह्यामलकीं गता देवा द्विजास्तथा ।ब्रह्मविष्णुशिवाश्चापि तत्राधिष्ठानमास्थिताः
जाता ह्यामलकी देवी परमानन्ददायिनी ।मान्या स्थाप्या पूज्या प्रणन्तव्या सखोत्वियं”
इति वृहद्धर्म्मपुराणे आमलकीप्रादुर्भावः १२अध्यायः
*
एकादश्यां तत्र विष्णुप्रीतिर्यथा ।“तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ।श्रीकामः सर्व्वदा स्रानं कुर्व्वीतामलकैर्न्नरः”
इति गारुडे २१५ अध्वायः