| YouTube Channel

आमलकं (AmalakaM)

 
शब्दकल्पद्रुमः
Sanskrit
आमलकं,
क्ली,
(आ + मल + क्वुन् शिल्पिसंज्ञयोः ।आमलक्याः फलं फलेलुगिति विकारावयवप्रत्य-यस्य लुक्
) आमलकीविशेषः काठ आमला-इति भाषा तत्पर्य्यायः काष्ठधात्रीफलं क्षुद्रा-मलकं क्षुद्रजातीफलं अस्य गुणाः कषा-यत्वं कटुत्वं शीतत्वं पित्तास्रदोषनाशित्वञ्च ।इति राजनिर्घण्टः
(“तद्वदामलकं शीतमम्लं पित्तकफापहं” ।इति वाभटः
“विद्यादामलके सर्व्वान् रसान् लवणवर्ज्जितान् ।स्वेदमेदःकफोत्क्लेदपित्तरोगविनाशनं”
इति चरकः
)