| YouTube Channel

आप्यम् (Apyam)

 
Apte Hindi
Hindi
आप्यम्
नपुं*
- "आपां इदं अण्, स्वार्थे ष्यञ्"
"जल, पानी"
E Bharati Sampat
Sanskrit
(न) आपामिदम् आपस्+अण् ‘तस्येदम्’ ४.३.१२०। १.जलविकारः। २.जलफेनः। आप्(स्वार्थे)+ष्यञ् ‘यथातथयथापुरयोः पर्यायेण’ ७.३.३१। आप्तुं योग्यम् आप्लृ(व्याप्तौ)+ण्यत् ‘ऋहलोण्यत्’ ३.१.१२४। २.प्राप्तुं योग्यम्
Wordnet
Sanskrit
Synonyms:
सम्बन्धः, सम्बन्धिता, बान्धवता, बन्धुभावः, आप्यम्, गोत्रित्वम्, ज्ञातिभावः
noun
विवाहादीनां निमित्तेन मनुष्याणां परस्परेषु वर्तमानः भावः अथवा एकस्मिन् कुले जातानां मनुष्याणाम् परस्परेषु वर्तमानः भावः।
"मधुरिमया भवतः कः सम्बन्धः।"
Synonyms:
सम्बन्धः, आप्यम्
noun
अमुकप्रकारकः सम्बन्धः।
"अस्मिन् कार्ये रामस्य सम्बन्धः नास्ति।"
कृदन्तरूपमाला
Sanskrit
1 {@“आपॢ व्याप्तौ”@} 2 “आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे।
व्याप्त्यर्थस्यास्य तु स्वादेराप्नोतीति पदं भवेत्।।” 3 इति देवः।
आपकः-प्रापकः-पिका, आपकः-पिका, ईप्सकः 4 प्सिका
आप्ता-प्त्री, प्रापयिता-त्री, ईप्सिता-त्री
5 आप्नुवन्-वती, प्रापयन्-न्ती, ईप्सन्-न्ती
6 आप्स्यन्-न्ती-ती, आपयिष्यन्-न्ती-ती, ईप्सिष्यन्-न्ती-ती
-- प्रापयमाणः, प्रापयिष्यमाणः
आपः 7
-- -- आप्तः- 8 संप्राप्तः-प्तम्-प्तवान्, प्रापितम्, 9 ईप्सितः-तवान्
आपः, आपः, व्यापी-व्यापिनी, 10 ईप्सुः, आपिपयिषुः
-- आप्तव्यम्, आपयितव्यम्, ईप्सितव्यम्
आपनीयम्, प्रापणीयम्, ईप्सनीयम्
11 संप्राप्यः, आप्यम्, -- प्राप्यम्, -- ईप्स्यम्
ईषदापः-दुरापः-स्वापः
-- -- प्राप्यमानः, प्राप्यमानः, ईप्स्यमानः
आपः, आपः, ईप्सः
आप्तुम्, आपयितुम्, ईप्सितुम्
12 आप्तिः, प्रापणा, ईप्सा, आपिपयिषा
प्रापणम्, आपनम्, ईप्सनम्
आप्त्वा, आपयित्वा, ईप्सित्वा
प्राप्य, 13 प्रापय्य 14 = प्राप्य, प्रेप्स्य
15 आपम् २, आप्त्वा २, आपम् २, आपयित्वा २, ईप्सम्
ईप्सित्वा
प्रासङ्गिक्यः
01
=>
(५९)
02
=>
(५-स्वादिः-१२६०। सक। अनिट्-पर।)
03
=>
(१३७)
04
=>
[[३। सनि ‘आप्ज्ञपृधामीत्’ (७-४-५५) इतीत्वे, द्वित्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः।]]
05
=>
[[४। ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये उवङ्।]]
06
=>
[पृष्ठम्००५८+ २८]
07
=>
[[१। ‘आप्नोतेर्ह्रस्वश्च’ (द। उ। ७-१।) इति क्विप्सन्नियोगेन ह्रस्वत्वे, ‘अप्तृन्--’ (६-४-११) इति सर्वनामस्थाने दीर्घः। ‘आपः स्त्री भूम्नि वार्वारि--’ इति अमरकोशात् नित्यं बहुवचनम्।]]
08
=>
[[आ। ‘तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशंवदः’ भ। का। ६-१००।]]
09
=>
[[B। ‘अन्वयादिविभिन्नानां यथासंख्यमनीप्सितम्’ भ। का। ९। १३२।]]
10
=>
[[C। ‘दिग्व्यापिनीर्लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः’ भ। का। २-१३।]]
11
=>
[[ड्। ‘संप्राप्यो निजशक्तिराद्धतपसः साधोः देवोऽपि तामृज्वीकर्तुमुपानशे सुकृतिनीं प्रस्तिध्नुवानः खलान्।।’ धा। का। २-६९।]]
12
=>
[[२। ‘क्तिन् आबादिभ्यः निष्ठायामनिड्भ्यः’ (वा। ३-३-९४) इति क्तिन्। ‘गुरोश्च हल’ (३-३-१०३) इत्यस्यापवादः।]]
13
=>
[[E। ‘प्रापय्य शौरिमथ तां भगिनीं वाक्यैरक्षीणसौहृदमपेतशुचाऽवतानीत्’ वा। वि। ३-५६।]]
14
=>
[[३। ‘विभाषाऽऽपः’ (६-४-५७) इति णेरयादेशो वा।]]
15
=>
[पृष्ठम्००५९+ २५]