| YouTube Channel

आप्तकाम (AptakAma)

 
Yates
English
आप्त-काम (मः-मा-मं)
a. Satisfied
having obtained one's wishes.
Spoken Sanskrit
English
आप्तकाम AptakAma
adj.
one who knows the identity of brahman and Atman
आप्तकाम AptakAma
adj.
satisfied
आप्तकाम AptakAma
adj.
one who has gained his wish
आप्तकाम AptakAma
m.
supreme soul
Monier Williams Cologne
English
आप्त—काम
mfn.
one who has gained his wish, satisfied
(in
phil.
) one who knows the identity of Brahman and Ātman
आप्त—काम
m.
the supreme soul,
T.
Apte Hindi
Hindi
आप्तकाम
वि* आप्तम्-काम
जिसने अपनी इच्छा पूर्ण कर ली हो
आप्तकाम
वि* आप्तम्-काम -
जिसने सांसारिक इच्छाओं और आसक्तियों का त्याग कर दिया है
आप्तकामः
पुं*
- -
परमात्मा
Shabdartha Kaustubha
Kannada
आप्तकाम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಮಾತ್ಮ
आप्तकाम
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಇಷ್ಟಾರ್ಥವನ್ನು ಹೊಂದಿರುವ
प्रयोगाः - > "आप्तकाम, सृजसि त्रिजगत्किम्"
उल्लेखाः - > नैष० २१-१०५
आप्तकाम
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪ್ರಾಪಂಚಿಕ ಸೌಖ್ಯವನ್ನು ತ್ಯಜಿಸಿದ
व्युत्पत्तिः - > आप्तः प्राप्तः कामो येन
L R Vaidya
English
Apta-kAma {% (I) a. %} 1. one who has obtained his desire
2. one who has given up all worldly desires.
Apta-kAma {% (II) m. %} the supreme soul.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
आप्त꣡काम Adj. der seinen Wunsch erlangt hat, Śat. Br. 14, 7, 1, 21.
Wordnet
Sanskrit
Synonyms:
आप्तकाम
adjective
यस्य सर्वाः इच्छाः सिद्धाः जाताः।
"आप्तकामः मनुष्यः सर्वदा प्रसन्नः भवति।"
वाचस्पत्यम्
Sanskrit
आप्तकाम
त्रि०
आप्तः प्राप्तःकामोयेन ब्रह्मात्मैक्यावग-न्तरि यथा चास्याप्तकामत्वं तथोक्तं पृ० उप० भाष्ययोः ।“तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयं रूपम् ।तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो बाह्यं किञ्चन वेदनान्तरमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यंकिञ्चन वेद नान्तरम् तद्वा अस्यैतदाप्तकाममकामं रूपंशोकान्तरम् अत्र पिताऽपिता भवति माताऽमातालोका अलोका देवा अदेवा वेदा अवेदाः अत्र स्तेनो-ऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचाण्डालःपौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतंपापेन तीर्णो हि तदा सर्व्वाञ्छोकान् हृदयस्य भवति” वृ० उ०“इदानीं योऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रिया-कारकफलशून्यं प्रत्यक्षतो निर्द्दिश्यते यत्राविद्या-कामकर्म्माणि सन्ति तदेतत्प्रस्तुतं “यत्र सुप्तो नकञ्चन कामं कामयते कञ्चन स्वप्नं पश्यतीति” तद्वाअस्य रूपम् यः सर्वात्मभावः सोऽस्य परमो लोक इ-त्युक्तस्तदतिच्छन्दा अतिच्छन्दमित्यर्थः रूपपरत्वात् छन्दःकामोऽतिगतः छन्दोऽमिन् रूपे तदतिच्छन्दं रूपम् ।अन्योऽसौ असन्तः छन्दःशब्दो गायत्र्यादिच्छन्दोवाची ।अयन्तु कामवचनोऽतः खरान्त एव तथाप्यतिच्छन्दाइति पाठः स्वाध्यायधर्म्मो द्रष्टव्यः अस्ति लोके काम-वचनप्रयुक्तः छन्दशब्दः स्वच्छन्दः परच्छन्दैत्यादौ अ-तोऽतिच्छन्दमित्येवमुचितं कामवर्ज्जितमेतद्रूपमित्यस्मिन्नर्थे ।तथाऽपहतपाप्मा पाप्मशब्देन धर्माधर्मवुच्यते “पा-पमभिः संसृज्यते” “पाप्मनी विजहाति” इत्युक्तत्वात् ।अपहतपाप्म धर्म्माधर्म्मवर्जितमित्येतत् किञ्चाभयम् भयंहि नमाविद्याकार्य्यम् “अविद्यया भयं मन्यत” इतिह्युक्तम् तत्कार्य्यद्वारेण कारणप्रतिषेधोऽयम् अभयं रूप-मित्यविद्यावर्जितमित्येतत् यदेतद्विद्वाफलं सर्वात्मभा-वस्तदेतदतिच्छन्दापहतपाप्माभयं रूपं सर्व्वसंसारधर्म्म-वर्ज्जितमतोऽभयं रूपमेतत् इदञ्च पूर्व्वमेवोपन्यस्तमती-तानन्तरब्राह्मणसमाप्तौ “अभयं वै जनक प्राप्तोऽसि”इत्यागमतः इह तु तर्कतः प्रपञ्चितम् दर्शितागमार्थप्र-त्ययदार्ढ्याय अयमात्मा स्वयंचैतन्यज्योतिःखभावः सर्व्वस्वेन चैतन्यज्योतिषावभासयति “स यत्तत्र किञ्चि-त्पश्यति रमते चरति जानाति च” इत्युक्तम् अतः स्थित-ञ्चैतन्न्यायतो नित्यस्वरूपं चैतन्यज्योतिष्ट्वमात्मनः सयद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्त्तते कस्मादयमहम-स्मीत्यात्मानं वा बहिर्वेमानि भूतानीति जाग्रत्स्वप्नयोरिवन जानातीत्यत्रोच्यते शृण्वत्राज्ञानहेतुम् एकत्वमेवा-ज्ञानहेतुस्तत्कथम्? इत्युच्यते दृष्टान्तेन हि प्रत्यक्षीभवतिविवक्षितोऽर्थ इत्याह तत् तत्र यथा लोके प्रिययेष्टयास्त्रिया सम्परिष्वक्तः सम्यक् परिष्वक्तः कामयन्त्या कामुकःसन्न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद मत्तोऽन्यद्व-स्त्विति चान्तरमयमहमस्मि सुखी दुःखी चेतिअपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्व्वमेव बाह्य-माभ्यन्तरञ्च परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति ।एवमेव यथादृष्टान्तोऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतःसैन्धवखिल्यवत् प्रविभक्तो जलादौ चन्द्रादिप्रतिविम्बवत्का-र्य्यकरण इह प्रविष्टः सोऽयं पुरुषः प्राज्ञेन परमार्थेनस्वाभाविकेन स्वेनात्मना परेण ज्योतिषा सम्परिष्वक्तःसम्यक् परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा बाह्यंकिञ्चन वस्त्वन्तरं नाप्यान्तरमात्मन्ययमहमस्मि सुखीदुःखी वेति वेद तत्र चैतन्यज्योतिःस्वाभावत्वे कस्मादिहन जानातीति यदप्राक्षीस्तत्रायं हेतुर्मयोक्तः एकत्वंयथा स्त्रीपुंसयोः सम्परिष्वक्तयोः तत्रार्थान्नानात्वं वि-शेषविज्ञानहेतुरित्युक्तं भवति नानात्वे कारणमात्मनो-वस्त्वन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तं तत्र चाविद्याया यदाप्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति ततश्च ज्ञानज्ञेयादिकारकविभागेऽसति कुतो विशेषविज्ञानप्रादुर्भावःकामो बा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि ।यस्मादेवं सर्व्वैकत्वमेवास्य रूपमतस्तद्वै अस्यात्मनः स्वयंज्योतिः स्वभावस्यैतद्रूपमाप्तकामं यस्मात्समस्तमेतत्तस्मा-दाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामं यस्य ह्यन्य-त्वेन प्रयिभक्तः कामस्तदनाप्तकामं भवति यथा जागरि-तावस्थायां देवदत्तादिरूपम् त्विदं तथा कुतश्चित्प्र-विभज्यतेऽतस्तदाप्तकामं भवति किमन्यस्माद्वस्त्वन्तरान्नप्रविभज्यते आहोस्विदात्मैव तद्वस्त्वन्तरमत आह ना-न्यदस्त्यात्मनः कथम्? यतः आत्मकाममात्मैव कामा यस्मि-न्रूपे येऽत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा जाग्र-त्स्वप्नयोस्तेऽस्यात्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभा-वादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छो-कान्तरं शोकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमितिवा सर्वथाप्यशोकमेतद्रूपं शोकवर्ज्जितमित्यर्थः प्रकृतःस्वयंज्योतिरात्मा अविद्याकामकर्म्मविनिर्म्मुक्त इत्युक्तम् ।असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषां, तत्रैवाशङ्का जा-यते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुं-सयोरिव सम्परिष्वक्तयारित्युक्तम् तत्र प्रासङ्गिकमेत-दुक्तं कामकर्मादवत् स्वयं ज्योतिष्ट्वमप्यास्यात्मनो नस्वभावः यस्मात् सम्प्रसादेनोपलभ्यत इत्याशङ्कायांप्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेनविद्यमानस्यैव स्वयंज्योतिष्ट्वस्य सुषुप्तेऽग्रहणमेकीभावा-द्धेतोर्न तु कामकर्मादिवदागन्तुकम् इत्येतत्प्रासङ्गिकम-भिधाय यत्प्रकृतं तदेवानुप्रवर्त्तयति अत्र चैतत्प्रकृत-मविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् यत्सुषुप्त आ-त्मनो गृह्यते प्रत्यक्षत इति तदेतद्यथाभूतमेवाभिहितंसर्वसम्बन्धाधीनमेतद्रूपमिति तस्मादत्रैतस्मिन् सुषुप्तस्था-नेऽतिच्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकःतस्य जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तंतेन कर्भणाऽयमम्बद्धोऽस्मिन् काले, तस्मात्पिता पुत्र-सम्बन्धनिमित्तस्य कर्मणो विनिर्मुक्तत्वात् पितप्यपि-ता भवति तथा पुत्रोऽपि पितुरपुत्रो भवतीति साम-र्थ्याद्गम्यते उभयोर्हि सम्बन्धनिमित्तं कर्म तदयम-तिक्रान्तो वर्त्ततेऽपहतपाप्मेति ह्युक्तम् तथा माता-ऽमाता लोकाः कर्मणा जेतव्या जिताश्च तत्कर्म-सम्बन्धाभावाल्लोका अलोकाः तथा देवाः कर्माङ्गभूतास्त-त्कर्मसम्बन्धात्ययादेवादेवाः तथा वेदाः साध्यसा-धनसम्बन्धविधायकाः ब्राह्मणलक्षणा मन्त्रलक्षणाश्चाभि-धायकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्म-निमित्तमेव सम्बध्यन्ते पुरुषेण तत्कर्मातिक्रमणादे-तस्मिन् काले वेदा अप्यवेदाः सम्पद्यन्ते केबलंशुभकर्मसम्बन्धातीतः किन्तर्हि अशुभैरप्यत्यन्तघोरैः कर्म-भिरसम्बद्ध एवायं वर्त्तत इत्येतमर्थमाह अत्र स्तेनो ब्राह्मण-सुवर्णहर्त्ता भ्रूणहासहपाठादवगम्यते तेन बोरेणकर्म्मणैतस्मिन् काले विनिर्मुक्तो भवति येनायं कर्मणामहापातकी स्तेन उच्यते तथा भ्रूणहाऽभ्रूणहा तथाचाण्डालो केवव्यं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः ।किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनि-र्मुक्त एवायम् चण्डांलो नाम शूद्रेण ब्राह्मण्यासु-त्पन्नः चण्डाल एव चाण्डालः जातिनिमित्तेनकर्मणाऽसम्बद्धत्वादचाण्डालो भचति पौल्कसः पुल्-कस एव पौलकसः शूद्रेणैव क्षत्रियायामुत्पन्नः तथासोऽप्यपौल्कसो भवति तथा शुभलक्षणैश्च कर्मभिरस-म्बद्धो भवतीत्युच्यते श्रमणः परिव्राट् यत्कर्मनिमित्तोभवति तेन विनिर्मुक्तत्वादश्रमणः तथा तापसोवानप्रस्थोऽतापसः सर्व्वेषां वर्णाश्रमादीनामुपलक्षणा-र्थमुभयोर्ग्रहणं किं बहुना अनन्वागतं अन्वागतमन-न्वागतमसम्बद्धमित्येतत् पुण्येन शास्त्रविहितेन कर्म्मणा ।तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन रुपपर-त्वान्नपुंसकलिङ्गम् अभयं रूपमिति ह्यनुवर्त्तते किंपुनरसम्बद्धत्वे कारणमिति तद्धेतुरुच्यते तीर्णोऽति-क्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन् काले सर्वाञ्छो-कान् शोकाः कामा इष्टविषयप्रार्थनाः ते हि तद्विषय-वियोगे शोकत्वमापद्यन्ते इष्टं हि विषयमप्राप्तं वियुक्तंचोद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषोऽतः शोकोरतिः काम इति पर्य्यायाः यस्मात् सर्वकामातीतोह्यत्रायं भवति कञ्चन कामं कामयते अतिछन्दाइति ह्युक्तं तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचनएव भवितुमर्हति कामश्च कर्महेतुर्वक्ष्यति हि “सयथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुत”इति अतः सर्वकामातितीर्ण्णत्वाद्युक्तमुक्तमनन्वागतं पुण्ये-नेत्यादि हृदयस्य हृदयमिति पुण्डरीकाकारो मांस-पिण्डस्तत्स्थमन्तःकरणं बुद्धिर्हृदयमित्युच्यते तात्स्थ्या-न्मञ्चाक्रोशनवत् हृदयस्यबुद्धेर्ये शोकाबुद्धिसंश्रया हि ते ।“कामः संकल्पो विचिकित्सेत्यादि” “सर्वं मन एव” इत्युक्तत्वात्वक्ष्यति “कामा येऽत्र हृदि श्रिताः” आत्मसंश्रयभ्रान्त्य-पनोदाय हीदं वचनम् “हृदि श्रिता हृदयकोशा”इति हृदयकारणसम्बन्धातीतश्चायमस्भिन् कालेऽति-क्रामति मृत्योरूपाणीति ह्युक्तम् हृदयसम्बन्धातीत-त्वात्तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम् ।ये तु वादिनः हृदि श्रिताः कामा वासनाश्च हृदयसम्ब-न्धिनमात्मानमुपसर्प्योपश्लिष्यन्ते हृदयवियोगेऽपि चा-त्मन्यवतिष्ठन्ते पुटतैलस्थैव पुष्पादिगन्ध, इत्याच-क्षते तेषां “कामः संकल्पः” “हृदये ह्येव रूपाणि” हृद-यस्य शोका “इत्यादीनां वचनानामानथेक्यमेव हृदयक-रणोत्पाद्यत्वादिति चेत् हृदि श्रिता इति विशेष-णात् हि हृदयस्य करणमात्रत्वे हृदि श्रिता इतिवचनं समञ्जसम् हृदये ह्येव रूपाणि प्रतिष्ठितानीतिच आत्मविशुद्धेश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेवयुक्तम् “ध्यायतीव लेलायतीवेति च” श्रुतेरन्यार्थासम्भ-वात् “कामा येऽस्य ह्णदि श्रिता” इति विशेषणादात्मा-श्रया अपि सन्तीति चेत् अनाश्रितापेक्षत्वत् नचाश्रयान्तरमपेक्ष्यते हृदीति विशेषणं किन्तर्हि? ये हृद्य-नाश्रिताः कामास्तानपेक्ष्य विशेषणम् ये त्वप्ररूढा भ-विष्या भूताः स्वप्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः, सम्भावन्ते ते अतो युक्तं तानपेक्ष्य विशेषणम् येप्ररूढा वर्त्तमानादिविषये ते सर्वे प्रमुच्यन्ते इति त-थापि विशेषणानर्थक्यमिचि चेत् तेषु यत्नाधिक्या-द्धेयार्थत्वात् इतरथाऽश्रुतमनिष्टञ्च कल्पितं स्यादात्मा-श्रयत्वञ्च कामानाम् “न कञ्चन कामं कामयत” इतिप्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत्न “सुधीः स्वप्नोभूत्वेति” परनिमित्तत्वात् कामाश्रयत्वप्राप्तेःअसङ्गवचनाच्च हि कामाश्रयत्वेऽसङ्गवचनमुपपद्यते ।सङ्गश्च काम इत्यवोचाम आत्मकाम इति श्रुतेरात्मविषयेऽस्यकामी भवतीति चेत् व्यतिरिक्तकामनाभावार्थत्वात्तस्याः, वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमितिचेत् हृदि श्रिता इत्यादिविशेषश्रुतिविरोधादनपे-क्ष्यास्तावैशेषिकादितन्त्रोपपत्तयः श्रुतिविरोधे न्यायाभास-त्वोपगमात् स्वयंज्योतिष्ट्वबाधनाच्च कामादीनाञ्च स्वप्नेकेवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्वं सिद्धम् स्थितञ्चबाध्येतात्मसमवायित्वे दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेष-वत् द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयंज्योतिष्ट्वंसिद्धम् तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत ।सर्वशास्त्रप्रतिषेधाच्च परस्यैकदेशकल्पनायां कामाद्या-श्रयत्वे सर्व्वशास्त्रार्थजातं कुप्येत एतच्च विस्तरेणचतुर्थेऽवोचाम महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाःप्रतिषेद्धव्याः आत्मनः परेणैकत्वशास्त्रार्थसिद्धेः तत्-कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितःस्यात् यथेच्छादीनामात्मधमेत्वं कल्पयन्तो वैशेषिकानैयायिकाश्चोपनिषच्छास्त्रार्थेन सङ्गच्छन्ते तथेयमपिकल्पनोपनिषच्छास्त्रार्थबाधनान्नादरणीया” ।“काममय एवायं पुरुग इति यथाकामो भवति तत्-क्रतुर्भवति यत्क्रतुर्भवति तत् कर्म्म कुरुते यत् कर्मकुरुते तदभिसम्पद्यते” इत्युपक्रम्य “तदेव सक्तः सह कर्म-णैति लिङ्गं मनोयत्र निषक्तमस्य प्राप्यान्तं कर्मणस्तस्ययत् किञ्चेह करोत्ययम् तस्माल्लोकात् पुनरेत्यन्मै लोकायकर्मणे” इति श्लोकमुदाहृत्य “इति नु कामयमान” इत्युक्त्याकामयमानस्यैव जन्मादिहेतुत्वमुक्त्वा“अथाकामयमानोयोऽकामोनिषकाम आप्तकाम आत्म-कामोन तस्य प्राणाह्युत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येतिवृ० उप० “इति नु एवं नु कामयमानः संसरति यस्मात्कामयमान एवैवं संसरत्यथ तस्मादकाययमनो नक्वचित् संसरति फलासक्तस्य हि गतिरुक्ता अकामस्यहि क्रियानुपपत्तेः अकामयमानो मुच्यते एवंकथंपुनरकामयमानोभवति? योऽकामो भवत्यसावकामय-मानः कथमकामता? इत्युच्यते यो निःकामो यस्मान्नि-र्गताः कामाःसोऽयं निष्काम कथं कामा निर्गच्छन्ति? ।य आप्तकामोभवति आप्ताः कामा येन आप्तकामः ।कथमाप्यन्ते कामाः? आत्मकामत्वेन यस्यात्मैव नान्यःकामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति आत्मैवा-न्तरो बाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्द्धं ति-र्य्यग्नाधः आत्मनोऽन्यत्कामयितुम् “यस्य सर्वमात्मैवा-भूत् तत् केन कं पश्येत् शृणुयान्मन्वीत विजानीयाद्वा”एवं विजानन् किङ्कामयेत्? ज्ञायमानो ह्यन्यत्वेनपदार्थः कामयितव्यो भवति चासावन्यो ब्रह्मविदआप्तकामस्यास्ति एवात्मकामतयाऽऽप्तकामः मिष्-कामोऽकामोऽकामयमानश्चेति मुच्यते हि यस्यात्मैवसर्व्वं भवति तस्यानात्मा कामयितव्योऽस्ति अनात्मा-चान्यः कामयितव्यः सर्वञ्चात्मैवाभूदिति प्रतिषिद्धम्सर्वात्मदर्शिनः कामयितव्याभावात् कामानुपपत्तिः येतु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषांनात्मैव सर्वं भवति प्रत्यवायस्य जिहासितव्यस्यात्मनोऽ-न्यस्याभिप्रेतत्वात् येन चाशनायाद्यतीतो नित्यं प्रत्य-वायासम्बद्धो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः ।यश्च नित्यमेवाशनायाद्यतीतमात्मानं पश्यति यस्माच्च जि-हासितव्यमन्यमुपादेयं वा यो पश्यति तस्य कर्म्म नशक्यत एव सम्बद्धुम् यस्त्वब्रह्मवित्तस्य भवत्येव प्रत्यवा-यपरिहारार्थं कर्मेति बिरोधः अतः कामाभावाद-कामयमानो जायते मुच्यत एव तस्यैवमकामयमा-नस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयोनोत्क्रामन्ति नोर्द्धं क्रामन्ति देहात् विद्वानाप्त-काम आत्मकामतया इहैव ब्रह्मभूतः सर्वात्मनो हिब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपम् “तद्वा अस्यैत-दाप्तकाममात्मकाममकामं रूपमिति” तस्य हि दार्ष्टान्ति-कभूतोऽयमर्थ उपसंह्रियते अथाकामयमान इत्या-दिना कथमेवम्भूतो मुच्यते? इत्युच्यते यो हिसुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिःस्वभाव-मात्मानं पश्यति तस्यैवाकामयमानस्य कर्माभावे गमन-कारणाभावात् प्राणवागादयो नोत्क्रामन्ति किन्तु विद्वान्स इहैव ब्रह्म भवति यद्यपि देहवानिव लक्ष्यते सब्रह्मैव सन् ब्रह्माप्येति यस्मान्नहि तस्याब्रह्मत्वपरिच्छद-हेतवः कामाः सन्ति तस्मादिहैव ब्रह्मैव सन् ब्रह्मा-प्येति शरीरपातोत्तरकालम् हि विदुषो मृतस्यभावान्तरापत्तिर्जीवतोऽन्यी भावः देहान्तरप्रतिसन्धानाभा-वमात्रेणैव तु ब्रह्माप्येतीत्युच्यते भावान्तरापत्तौ हिमोज्ञस्य सर्वोपनिषद्विवक्षितोऽर्थ आत्मैकताख्यः बाधितोभवेत् कर्महेतुकश्च मोक्षःप्राप्नोति ज्ञाननिमित्त इति ।स चानिष्टःअनित्यत्वञ्च मोक्षस्य प्राप्नीति हि क्रिया-निर्वृत्तोऽर्थो नित्यो दृष्टः नित्यश्च मोक्षोऽभ्युपगम्यते ।“एष नित्यो भहिमेति” मन्त्रवर्णात्” वृ० उ० भा० ।२ परमात्मनि तस्य सर्व्वेषामात्मत्वेनान्यकामयितव्याभावात्आप्तकामत्वम्” आप्तः युक्तः उचितः कामः इच्छा यस्यइति विग्रहे तु नैयायिकमतसिद्धे ईश्वरे सद्विषय-केच्छाश्रयत्वादीश्वरस्य तथात्वम्