| YouTube Channel

आपन्नः (ApannaH)

 
E Bharati Sampat
Sanskrit
(वि) प्राप्ता आपद् यः। आ+पद(गतौ)+क्तः। ‘गत्यर्याकर्मक०’ ३.४.७२। १.विपन्नः। २.प्राप्तः। ‘आपन्नभयसहस्रेषु दीक्षिताः खलु पौखाः’ शाकु०२.१६।
शब्दकल्पद्रुमः
Sanskrit
आपन्नः, त्रि, (आङ् + पद् + क्तः ।) आपद्ग्रस्तः ।तत्पर्य्यायः आपत्प्राप्तः इत्यमरः
प्राप्तः ।इति मेदिनी
(यथा भागवते, --“आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयं”
यथा हितोपदेशे, --“बलीयसाभियुक्तस्तु नृपोऽनन्यप्रतिक्रियः ।आपन्नः सन्धिमन्विच्छेत्कुर्व्वाणः कालयापनं”
)