| YouTube Channel

आधेयं (AdheyaM)

 
शब्दकल्पद्रुमः
Sanskrit
आधेयं, त्रि, (आङ् + धा + यत् ।) आधारस्थित-वस्तु यथा शाब्दबोधे चैकपदार्थे अपरपदार्थ-संसर्गः संसर्गमर्य्यादया भासते क्वचिद्भेदःक्वचिदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिवि-षयविषयिभावादिः इति गदाधरभट्टाचार्य्यकृत-प्रथमव्युत्पत्तिवादः
उत्पाद्यः यथा, --“सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः”
इति वोपदेवकृतमुग्धबोधीयकारिका
आधेयउत्पाद्यः यथा पक्वमृण्मयपात्रेषु रक्ततागुणः सवह्निसंयोगादिना निष्पाद्यते इति तट्टीकायांदुर्गादासः