आधिदैविक (Adhidaivika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishआधिदैविक [ādhidaivika], (-की ) [अधिदेव-ठञ्]
Relating to अधिदेव or tutelary deity (as a Mantra)
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च 6.83.
Caused by fate (as pain )
according to Suśruta pain is of three kinds
आध्यात्मिक, आधिभौतिक or आधिदैविक.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiआधिदैविक
वि* - अधिदेव+ठञ्
अधिदेव या इन्द्रियों के अधिष्ठातृ देव से सम्बन्ध रखने वाला
आधिदैविक
वि* - अधिदेव+ठञ्
"दैवकृत, भाग्य में लिखी हुई"
Shabdartha Kaustubha
Kannadaआधिदैविक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ದೇವತೆಗಳಿಂದ ಸಂಭವಿಸಬಹುದಾದ ದುಃಖ
निष्पत्तिः - > "ठञ्" (४-३-६०)
व्युत्पत्तिः - > देवेषु अधिदैवम् । तत्र भवम्
L R Vaidya
EnglishWordnet
Sanskrit पारलौकिक, अलौकिक, दिव्य, लोकोत्तर, आधिदैविक
परलोकसम्बन्धी।
"सज्जनः पारलौकिकाः वार्ताः कथयति।"
शब्दकल्पद्रुमः
Sanskritआधिदैविकं, त्रि, (अधि + देव + ठञ् । अनु-शतिकादीनां च इत्युपभयपदवृद्धिः ।) दुःखविशेषः ।तद्यथा, । “आधिदैविकं यक्षराक्षसविनायकग्र-हाद्यावेशनिबन्धनं” । इति साङ्ख्यसत्त्वकौमुदी ॥
(देवतामधिकृत्य, प्रवृत्तं, दाहशीतादिजनितं दुःखं ।अतिवातादिवृष्ट्यादिहेतुकं दुःखं । देवतामधि-कृत्य प्रवृत्तं शास्त्रम् । यथा मनुः ६ । ८३ ।“अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत्” ॥
“तत्तु सप्तविधे व्याधावुपनिपतति” इति सुश्रुतः ।)
वाचस्पत्यम्
Sanskritआधिदैविक अधिदेवं भवः देवान् वातादीन् अधि-कृत्य प्रवृत्तः वा ठञ् अनुशतिका० द्विपदवृद्धिः । देवाधि-कारेणप्रवृत्ते, १ शास्त्रे “अधियज्ञं ब्रह्मजपेदाधिदैविकमेवच” मनुः देवताऽधिकारेण प्रवृत्तवेदभागस्तु उपनित्सु-प्रसिद्धः । वातादिनिबन्धने २ दुःखे च । दुःखं हि त्रिवि-धमाध्यात्मिकादिभेदात् तेषां स्वरूपकारणविभागादिः सुश्रुते दर्शितः यथा“तच्च दुःखं त्रिविधमाध्यात्मिकमाधिभौतिकमाधिदैविक-मिति । तत्तु सप्तविधे व्याधावुपनिपतति । ते पुनःसप्तविधा व्याधयः । तद्यथाऽऽदिबलप्रवृत्ता जन्मवलप्रवृत्तादोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैव-बलप्रवृत्ताः स्वभावबलप्रवृत्ता इति । तत्रादिबलप्रवृत्ताये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः । तेऽपिद्विविधा मातृजाः पितृजाश्च ॥
जन्मबलप्रवृत्ता ये मातु-रपचारात्पङ्गुजात्यन्धवधिरमूकमिण्मिणवामनप्रभृतयो जायन्ते तेऽपि द्विविधा रसकृता दौहृदापचारकृताश्च ॥
दोष-बलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारभवाश्चतेऽपि द्विविधा आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्चद्विविधाः शारीरा मानसाश्च त एत आध्यात्मिकाः ॥
संघातबलप्रवृत्ता य आगन्तवो दुर्ब्बलस्य बलवद्विग्र हात्तेऽपिद्विविधाः शस्त्रकृता बलादिकृताश्च । एत आधिभौति-काः ॥
कालबलप्रवृत्ता ये शोतोष्णवातवर्षाप्रभृतिनिमि-त्तास्तेऽपि द्विविधा व्यापन्नर्त्तुकृता अव्यापन्नर्त्तुकृताश्च ॥
दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्व्वकृता उप-सर्गकृताश्च तेऽपि द्विविधा विद्युदशनिकृताः पिशा-चादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च ॥
स्वभावबलप्रवृत्ताः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयस्तेऽपिद्विविधाः कालकृताअकालकृताश्च तत्र परिरक्षणकृताःकालकृता अपरिरक्षणकृता अकालकृता एत आधि-दैविकाः” । एतदभिप्रायेणैव “अथ त्रिविधदुःखात्यन्त-निवृत्तिरत्यन्तपुरुषार्थः” इति सा० सू० “दुःखत्रया-भिघाताज्जिज्ञासां तदभिघातके हेतौ” सा० का० दुःख-त्रयमुक्तं विवृतञ्च सां० त० कौ० । “दुःखानां त्रयं दुःख-त्रयं तत् खलु आध्यात्मिकमाधिभौतिकमाधिदैविकञ्चतत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वात-पित्तंश्लेष्मणाम् वैषम्यनिमित्तं, मानसं कामक्रोधलोभ-मोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वं चैत-दान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । वाह्योपाय-साध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च तत्राधि-भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधि-दैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनम्” । “ताप-त्रयोन्मूलनम्” भाग० १ स्क० उक्तम् । दुःखञ्चात्मधर्मइति वैशेषिकादयः । अन्तःकरणादि धर्म इति सांख्या-दयः । अन्तःकरणादेः त्रिगुणात्मकप्रकृतिकार्य्यत्वात्प्रीत्यप्रीतिविषादानां त्रिगुणधर्म्माणां स्वस्वकार्य्ये संक्र-मात् सर्वेषां विषयाणामेव दुःखादिमत्त्वमिति भेदः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
