| YouTube Channel

आत्मवान् (AtmavAn)

 
Hindi
Hindi
स्वयं में स्थापित
E Bharati Sampat
Sanskrit
(पुं)(वि)(आत्मवत्) आत्मा अस्मिन् स्वामिन् अस्ति आत्मन्+मतुप् ‘तदस्यास्त्यस्मिन् इति मतुप्’ ५.२.९४। १.विष्णुः, हरिः। ‘स्वे महिम्नि प्रतिष्ठानात् आत्मवानभिधीयते ।’ ‘अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्’ वि०सं०। २.आत्मा वश्यतया अस्ति अस्य वश्यचित्तः, जितमनः। ‘आत्मवान् सत्ववानुक्तः उत्पलमाला ‘अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया’ रघुः८.१०। ‘गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः’ मनुः। ३.दृढचित्तः निर्विकारमनः। आत्मा प्रकाश्यतया अस्ति अस्य ‘उदये मदवाच्यमुञ्जता श्रुतमाविष्कृतमात्मवत्तया’ रघुः८.८४। ५.आत्माना तुल्यम् आत्मन्+वतिः। ‘तेनतुल्यं क्रियाचेद्वतिः’ ५.१.११५। आत्मना तुल्या क्रिया वा स्वसदृशः, आत्मसमः। (अ) ‘आत्मवत् सर्वभूतेषु यः पश्यति पण्डितः’ चाणक्यः। ‘आत्मवत्मन्यते जगत्’ नीति०। ६.आत्मविद्या
अमरकोशः
Sanskrit
Word: आत्मवान्
Root: आत्मवान्
Gender: undefined
Number: undefined
Meaning(s):
fit
rich
wise
proper
intelligent
Shloka(s):
3|3|160|2 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥ (नानार्थवर्गः)
Synonym(s):
3|3|160|2 अर्थ्यः (अर्थ्य) (पुं)
3|3|160|2 (अर्थ्य) (स्त्री)
3|3|160|2 अर्थ्यम् (अर्थ्य) (नपुं)
Related word(s):
जातिः मनुष्यः