| YouTube Channel

आकीर्णं (AkIrNaM)

 
शब्दकल्पद्रुमः
Sanskrit
आकीर्णं, त्रि, (आङ् + कॄ विक्षेपे + क्तः ।) व्याप्तं ।तत्पर्य्यायः संकीर्णं सङ्कुलं इत्यमरः ।सभाकीर्णं इति शब्दरत्नावली
(यथा, रघुवंशे प्रथमसर्गे ५० श्लोकः ।“आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः”
)जलादिभिर्निरवकाशं इति भरतः