| YouTube Channel

अहिः (ahiH)

 
Apte Hindi
Hindi
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
"साँप, अजगर"
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
सूर्य
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
राहुग्रह
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
वृत्रासुर
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
"धोखेबाज, बदमाश"
अहिः
पुं*
- आहन्ति-आ+हन्+इण् डित् आङो ह्रस्वश्च
बादल
E Bharati Sampat
Sanskrit
(पुं) आहन्ति - आ+हन(हिंसागत्योः)+इण् (आङि श्रिहनिभ्यां ह्रस्वश्च’ (उ. ४.१३९) (ङित्वात् टेर्लोपह्) सर्पः ‘सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिभुजङ्गमः’ - अमर. २. वृशासुर ‘अहिर्वृत्रेऽपि’ अमरः. ३. सूर्यः ४. राहुः ५. अह(व्याप्तौ+इन् ‘सर्वाधातुभ्यः इन्’ (उ. ४.११९) पथिकः ६. दुर्जनः, वञ्चकः ७. सर्पस्वामिकम् आहलेषानक्षत्रम् ८. जलम् ९. भूमिः १०. सीसलोहः ११. दुग्धदात्रीगौः १२. व्यापकः, प्रसृतः (वि) १३. (द्वि.व) द्यावापृथिवी
Wordnet
Sanskrit
Synonyms:
अहिः
noun
एकविंशतिभिः वर्णैः युक्तः छन्दोविशेषः।
"अहौ आदौ षट् भगणाः भवन्ति तथा अन्ते मगणः भवति।"
Synonyms:
यात्रिकः, पान्थः, अत्कः, अध्वगः, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, प्रोथः, वहतः, वहतुः, समीरणः, अध्वगच्छन्
noun
यः यात्रां करोति।
"निरवे मार्गे द्वौ यात्रिकौ चोरेण मृष्टौ।"
Synonyms:
सर्पः, भुजगः, भुजङ्गः, अहिः, भुजङ्गम्, उरगः, पृदाकुः, आशीविषः, विषधरः, चक्री, व्यालः, सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवा, काकोदरः, फणी, दर्वीकरः, दीर्घपृष्ठः, दन्दशूकः, विलेशयः, उरगः, पन्नगः, भोगौ, जिह्नगः, पवनाशनः, विलशयः, कुम्भीनसः, द्विरसनः, भेकभुक्, श्वसनोत्सुकः, फणाधरः, फणधरः, फणावान्, फणवान्, फणाकरः, फणकरः, समकोलः, व्याडः, दंष्ट्री, विषास्यः, गोकर्णः, उरङ्गमः, गूढपादः, विलवासी, दर्विभृत्, हरिः, प्रचालकी, द्विजिह्वः, जलरुण्डः, कञ्चुकी, चिकुरः, भुजः
noun
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
"सर्पाः शून्यागारे वसन्ति।"
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
शब्दकल्पद्रुमः
Sanskrit
अहिः,
पुं,
(आहन्तीति + हन् + इण् हनहिंसागत्योः आङि श्रिहनिभ्यां ह्रस्वश्चेति इण् ।स डित् डित्वात् टिलोपः आङो ह्रस्वश्च ।)वृत्रासुरः सर्पः इत्यमरः सूर्य्यः पथिकः ।राहुः इत्यनेकार्थध्वनिमञ्जरी
(सीसकं ।राहुः वप्रः अश्लेषानक्षत्रं खलः “विष-धरतोऽप्यतिविषमः खल इति मृषा वदन्तिविद्वांसः यदहिर्नकुलद्वेषी स्वकुलद्वेषी पुनःपिशुनः” इति वासवदत्तायाः प्रस्तावनाश्लोकः
)