अहर्गण (ahargaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishअहर्गण - ahargaNa - - series of days
अहर्गण - ahargaNa - - any calculated term
अहर्गण - ahargaNa - - month
अहर्गण - ahargaNa - - series of sacrificial days
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiअहर्गणः
अहन्-गणः -
यज्ञ के दिनों का सिलसिला
अहर्गणः
अहन्-गणः -
महीना
Shabdartha Kaustubha
Kannadaअहर्गण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದಿನಗಳ ಗುಂಪು /ದಿನಗಳ ಸಮುಹ
निष्पत्तिः - > रेफः (८-२-६९)
व्युत्पत्तिः - > अह्नां गुणः
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritअहर्गण अह्नां गणः । दिनवृन्दे दिनसमूहे । ग्रहाणांमध्यमावादिज्ञानसाधनानि सृष्ट्यवधि श्वेतवराहकल्पावधिकल्यारम्भावधि वा इष्टदिनपर्य्यन्तं यानि दिनानि गतानितेषां समूहे । तत्र सृष्ट्यद्यर्हगणस्तावत् “इत्यं युगसहस्रेणभूतसंहारकारकः । कल्पोब्राह्ममहःप्रोक्तं शर्वरी तस्यतावती । परमायुः शतं तस्य तयाहोरात्रसंख्यया ।आयुषोऽर्द्धमितं तस्य शेषे कल्पोऽयमादिमः । कल्पादस्माच्चमनवः षट् व्यतीताः ससन्धयः । वैवस्वतस्य च मनोर्यु-तानां त्रिघनो गतः । अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम् । अतः कालम् प्रसंख्याय संख्यामेकत्रपिण्डयेत्” । सू० सि० तदानयनप्रकार उक्तः । तत्रसृष्ट्यादिकस्य अहर्गणस्यानयनमित्थम् । ब्राह्मदिन-मानं मनुष्यपरिमाणेन ४३२००००००० वर्षाः रात्रि-मानञ्च तथा, इत्यहोरात्रमानम् ४८६४०००००००वर्षाः ब्राह्माहोरात्रमानम् ३६० गुणितं तस्य वर्षमानम्१७५१०४०००००००० एवं वर्षशतं ब्रह्मणः परमायुः१७५०४०००००००००० तस्यायुषोऽर्द्धम् ८७५५२०००००००००० वर्षागताः । मन्वन्तरसंख्या ३० ६७२०००० षड्भिर्गुणिताः १८४०३२०००० एते वर्षाः षण्णांमनूनां गताः । तथा सन्धयश्च सप्त कृतयुगप्रमाणा गतास्तत्रयुगसन्धिमानम् १७२८००० कृतप्रमाणवर्षाः सप्तभि-र्मुणिताः १२०९६००० वर्षाः । सप्तमस्य वैवस्वतमनोः२७ युगानि गतानि तेषां समष्टिः ११६६४०००० वर्षाःसत्यादीनां त्रयाणां गतानां युगानां मानम् ३८८८००० ।एवमादिसृष्टितः वर्त्तमानयुगान्तर्गतद्वापरयुगपर्य्यन्तम् ।८७५५२१९७२९४४००० वर्षाः गताःपरार्द्धतः १९७२९४४००० वर्षा गताः । वर्त्तमानमहायुगात् ३८८८००० वर्षागताः । एवमब्दपिण्डं कृत्वातत्र कलियुगगताब्दापिण्डं यीज्यम् । एतानि च सौररू-पाणीति ३६० गुणितानि सौरदिनवृन्दानि गतानि भवन्ति ।“मध्यमग्रहभुक्तिश्च सावनेन इत्युक्तेः सावनैरेव ग्रहमध्यभा-वज्ञानमतस्तेभ्यः सि० शि० चान्द्रसावनानयनं दर्शितम् ।यथा “कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससम-न्वितः । खदहनै ३० र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमास१५९३३००००० समाहतात् । रविदिनानि १५५५२-०००००००० गताधिकमासकैः कृतदिनैः सहितोद्युगणो विधोः । पृथगतः पठितावम् २५०८२५५००००संगुणाद्विधुदिना १६०२९९९०००००० प्तगतावमव-र्जितः । भवति भास्करवासरपूर्व्वको दिनगणोरविमध्यमसावनः । अधिकमासदिनक्षयशेषतोद्युघटिका-दिकमत्र न गृह्यते” । “अत्र वासना । कल्पगताब्दाद्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैःसौरैरेव युतास्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथि-तुल्यैः सौरैरेव दिनैर्युताः । एवं ते सौरा जातास्तेभ्यःपृथक्स्थितेभ्योऽधिमासानयनं त्रैराशिकेन । यदिकल्पसौरदिनैः कल्पाधिमासा लभ्यन्ते तदैभिः किमिति ।फलं गताधिमासाः । तैर्दिनीकृतैः पृथक् स्थितःसौराहर्गणैः सहितश्चान्द्रो भवति । यतः सौरचान्द्रा-न्तरमधिमासदिनान्येव । अथ चान्द्राद् द्युगणादव-मानयनं त्रैराशिकेन । यदि कल्पचान्द्राहैः कल्पावमानिलभ्यन्ते तदैभिः किमिति । फलं गतावमानि । तैरू-नश्चान्द्रोऽहर्गणोऽतः कर्त्तव्यः । यतः सावनचान्द्रान्तरे-ऽवमान्येव । एवं कृते सति रवेर्मध्यमः सावनाहर्गणोभवति न स्फुटः । मध्यमस्फुटाहर्गणयोर्भेदो गोलेकथितः । स चाहर्गणोऽर्कादिः । यतः कल्पादौरविवासरः । अत्राऽधिमासानयनेऽधिमासशेषं नस्थाप्यम् । न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः । एव-मवमशेषमपि । न तस्माद्घटिकादिकं ग्राह्यम् । नन्व-नुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः ।तत्कारणं गोले कथितं व्याख्यातं च” प्रमिता० । मध्य-मग्रहादप्यहर्गणानयनं तत्रैवोक्तम् । “साग्रात् स च-क्राच्च खगात् क्वहघ्नात् तत्कल्पचक्राप्तमहर्गणः स्यात्” ।निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगात् ।“ग्रहस्य भगणराशिभागकला विकला अन्ते विकलाशेषंच कुदिनैः संगुण्य स्वच्छेदेन विभज्योपर्युपरि निक्षि-पेत् । तद्यथा । भगणादिग्रहे विकलाशेषावधि कल्प-कुदिनगुणे विकलाशेषस्थाने कुदिनैर्विभज्य विकलास्थानेफलं प्रक्षिप्य तत्र षष्ट्या ६० विभज्य कलास्थाने निक्षि-प्यैवं भगणान्तं यावत् । तत्र कल्पभगणैर्हृतेऽहर्गणःस्यात् । अत्रोपपत्तिर्विलोमगणितेन । तथा निरग्रच-क्रादपि ग्रहात् तथा केबलादग्रादपि तथा शेषयोःशेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्यायेकुट्टकविधिना वक्ष्यते” प्रमि० । कलिगतादप्यहर्गणानयनंतत्रैव । “कलिगतादथ वा दिनसञ्चये दिनपतिर्भृगुजप्र-भृतिस्तदा । कलिमुखध्रुवकेण समन्वितो भवति तद्द्युगणो-द्भवखेचरः” । “अत्र कलिगताहर्गणेऽयं विशेषः ।शुक्राद्यो वारो गणनीयः । यतः कल्पगताहर्गणात्कलिमुखे शुक्रवारो भवति । तत्र च ये ग्रहास्तेध्रुवसंज्ञाः कल्पिताः । तद्द्युणभवः खेचरश्च कलि-मुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनापि सुगमा”प्रमि० । कुट्टकविधिश्च वीजगणिते दर्शितो यथा ।“अस्य गणितस्व ग्रहगणिते महानुपयोगः । तदर्थं कि-ञ्चिदुच्यते । “कल्प्याथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्यःकुदिनानि हारः । तज्जं फलं स्युविकला गुणस्तु लिप्ता-ग्रमस्माच्च कला लवाग्रम् । एवं तदूर्द्धं च तथाधिमासाव-माग्रकाभ्यां दिवसा रवीन्द्वोः” । “ग्रहस्य विकलावशेषाद्ग्र-हाहर्ग्गणयोरानयनम् । तद्यथा । षष्टिर्भाज्यः ।कुदिनानि हारः । विकलावशेषं शुद्धिरिति प्रकल्प्यसाध्ये गुणाप्ती । तत्र लब्धिर्विकलाः स्युर्गुणस्तु कलावशेषम् ।एवं कलावशेषं शुद्धिः षष्टिर्भाज्यः कुदिनानि हारः ।फलं कलाः । गुणोंऽशशेषम् । एवमंशशेषं शुद्धिस्त्रिंश-द्भाज्यः कुदिनानि हारः । फलं भागाः । गुणो-राशिशेषम् । एवं राशिशेषं शुद्धिर्द्वादश भाज्यः ।कुदिनानि हारः । फलं गतराशयोगुणोभगणशेषम् ।एवं कल्पभगणा भाज्यः । कुदिनानि हारः । भगणशेषंशुद्धिः । फलं गतभगणाः । गुणोऽहर्ग्गणः स्यादिति ।अस्योदाहरणानि त्रिप्रश्नाध्याये । एवं कल्पाधिमासा-भाज्योरविदिनानि हारोऽधिमासशेषं शुद्धिः । फलंगताधिमासाः । गुणो गतरविदिवसाः । एवं युगावमानिभाज्यश्चन्द्रदिवसा हारोऽवमशेषं शुद्धिः । फलं गताव-मानि । गुणोगतचन्द्रदिवसाइति” प्रमि० ।अहर्गणानयने अधिमासावमपरित्यागे कारणमाह” सि०शि० “अहर्गणस्यानयनेऽर्कमासाश्चैत्रादिचान्द्रैर्गणकान्विताःकिम् । कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवो-ऽनुपातः । दर्शावधिश्चान्द्रमसो हि मासः सौरस्तुसंक्रान्त्यवधिर्यतोऽतः । दर्शाग्रतः संक्रममानतः प्राक्सदैव तिष्ठत्यधिमासशेषम् । दर्शान्ततो यातति-थिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः । यतोऽ-धिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्सादधिमासशेषम् ।तिथ्यन्तसूर्य्योदययीस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगणोऽ-नुपातः” । “मध्यममानेन यावत्यमावास्या तदन्तेचान्द्रामासान्तः । मध्यमार्कस्य यस्मिन् दिने संक्रान्ति-स्तत्र संक्रान्तिकाले रविमासान्तः । तयोः रविचन्द्रमा-सान्तयोरन्तरे यावत्यस्तिथयः सावयवास्ता अधिमास-शेषतिथयः । यतः सौरचान्द्रान्तरमधिमासाः । अहर्ग-णानयने गताब्दा रविगुणास्ते सौरा मासा जाताः ।अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजि-तास्ते संक्रान्त्यवधयो जातास्तेषु त्रिंशद्गुणेषु गततिथि-तुल्याः सौरा एव दिवसा योजिताः । अतः सौर-चान्द्रान्तरेणाविका जातास्तदन्तरमधिमासशेषदिनानिभवन्ति सौरचान्द्रान्तरत्वात् । अतोऽधिमासशेषदिना-स्तेभ्यः शोध्याः । अथ चाधिमासानयनेऽनुपातलब्धै-रधिमासैर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताः सौराहाश्चान्द्रा-हा भवितुमर्हन्ति । एवमत्राधिमासशेषदिनानिक्षेप्याणि । तत्र शोध्यानि । अतः कारणादधिमासशेषंत्यक्तम् । अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरंयावतीभिर्घटीभिः सूर्य्योदया अवमशेषघटिकाःयतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यतेलब्धावमैरवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदातिथ्यन्ते सावनोऽहर्गणो भवति । अथ च सूर्य्यो-दयोऽवधिः साध्यः । तिथ्यन्ताहर्गणोऽवमशेषघटी-भिर्युक्तः सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्तेस्वतः सूर्य्योदयावधिर्भवति” प्रमि० । “अहर्गणोमध्यम-सावनेन कुतश्चलत्वात् स्फुटसावनस्य । तदूनखेटाउदयान्तराच्च कर्म्मोद्भवेनोनयुताः फलेन” सि० शि० अह-र्गणे विशेषमाह सि० शि० । “अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथयोऽपि तद्वत् । तदाधिमासावमशेषके चकल्पाधिमासावमयुक्तहीने” । “इह किल स्थूलतिथ्यानयनेयस्यां तिथौ यो वार आगतः स चेदहर्गणे नागच्छतितदाहर्गणं सैकं निरेकं कृत्वा ग्रहाः साध्या इति ज्योति-र्विदां संप्रदायो युक्तियुक्त एव । यतोऽहर्गणस्यवारो नियामकः । एवं कृते यो विशेषः सोऽभिधी-यते । तिथयोऽपि तद्वदित्यादि । अत्रैतदुक्तं भवति ।यदा वारार्थं सैकोऽहर्गणः कृतस्तदाधिमासावमशेषास्यांचन्द्रार्कानयने कोष्ट्याहतैरङ्ककृतेन्दुविश्वैरित्यादौ द्वादश-गुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वाद्वादशगुणाः क्षेप्याः । यदा निरेकोऽहर्गणः कृतस्तदानिरेकम् । तथा यदि सैकोऽहर्गणस्तदाधिमास-शेषं कल्पाधिमासैर्युतं कार्य्यम् । अवमैरवमशेषं च ।यतः सैकासु तिथिषु सैकोऽहर्गणो निरेकासु निरेकः ।तथा प्रतिदिनमधिमासशेषस्याधिमासैरुपचयोऽवमैरवमशेषःस्यात् युक्तमुक्तम्” इति प्रमिता० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
