| YouTube Channel

असिः (asiH)

 
Apte
English
असिः [asiḥ], [अस्यते क्षिप्यते
अस्-इन्
Uṇ.*
4.139]
A sword
A knife used for killing animals.
[अस्यति सेवनेन पापानि]
N.
of a river to the south of Benares.
Breath (श्वास). -सि
ind.
The 2nd
pers.
sing.
of the present of अस् to be, used as an indeclinable in the sense of 'त्वम्' thou
as in कृतवानसि विप्रियं मे
Ku.*
4.7 (where however असि may be taken as a verb).
Comp.
-असिind. sword against sword. -गण्डः a small pillow for the cheeks
(असिः क्षिप्तो गण्डो यत्र Tv.). -चार्य exercise or practice of arms
Mb.
* 1. -जीविन्
a.
one who earns his livelihood by means of swords, a soldier fighting for wages. -दंष्ट्रः, दंष्ट्रकः the marine monster makara or crocodile (painted on the banner of Kāmadeva).-दन्तः a crocodile. -धारा the edge of a sword
सुरगज इवं दन्तैर्भग्नदैत्यासिधारैः
R.*
1.86, 41. -धाराव्रतम् [असिधारायां स्थितिरिव दुष्करं व्रतम्]
(according to some) the vow of standing on the edge of a sword
(according to others) the vow of keeping constant company with a young wife and yet steadily resisting the temptation of sexual intercourse with her
यत्रैकशयनस्थापि प्रमदा नोपभुज्यते असिधाराव्रतं नाम वदन्ति मुनिपुंगवाः or शयने मध्ये खड्गं विधाय स्त्रीपुंसौ यत्र ब्रह्मचर्येण स्वपतस्तत्
or युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् अन्तर्निवृत्तसङ्गः स्यादसिधाराव्रतं हि तत् Yādava.
(hence
fig.
) any hopelssly difficult task
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्
Bh.*
2.28, 64
असिधारा- व्रतमिदं यदरिणा सह संवासः
Pt.*
3. -धावः, -धावकः an armourer, furbisher. वाद्यविद्याविदग्धाश्च लुब्धकाश्चासिधावकाः Śiva. B.31.21. -धेनुः, -धेनुका [असिर्धेनुरिव यस्याः वा कप् or असेर्धेनुका (धेनुशब्देन स्त्रीवाचकत्वं संदृश्यते)] a knife
Vikr.4.69
cf.
स्याच्छस्त्री चासिपुत्री च्छुरिका चासिधेनुका
Ak.*
2.8.92. -पत्र
a.
having sword-shaped leaves
जातं तमात्मन्यसिपत्रवृक्षम्
R.*
14.48.
(त्रः) the sugar-cane.
a kind of tree which grows in the lower world. (Mar. त्रिधारी निवडुंग.)
a hell paved with swords.
(त्रम्) the blade of a sword.
a sheath, a scabbard. ˚वनम् a hell where the trees have leaves as sharp as swords. असिपत्रवनं चैव निशितं क्षुरसंवृतम् (ददर्श)
Mb.
* 18.2. 23
असिपत्रवनं चैव लोहदारकमेव
Ms.*
4.9
पत्रकः a sugar-cane.
white दर्भ grass,
Bhāg.*
5.26.7.-पथः, -थम् the course of the breath. -पुच्छः, -पुच्छकः the Gangetic porpoise
see शिशुमार. -पुत्रिका, -पुत्री a knife (असेः पुत्रीव). -मेदः [असिरिव तीक्ष्णो मेदो निर्यासो यस्य] the fetid Khadira. (विट्खदिर
Mar.
शेण्याखैर). -लता the blade of a sword
ददृशुरुल्लसितासिलतासिताः
Śi.*
6.51.-हत्य
a.
to be killed with a sword. (-त्यम्) fighting with knives or swords. -हस्तः killing by right hand sword
(असिहस्तो दक्षिणबाहुविभ्रान्तच्छेदः इति नीलकण़्ठटीका)
असिहस्तापहस्ताभ्यां तेषां गात्राण्यकृन्तत
Mb.
* 6.9.45. -हेतिः [असिर्हेतिः साधनमस्य] a swordsman.
Apte 1890
English
असिः [अस्यते क्षिप्यते
अस्-इन् Uṇ. 4. 139] 1 A sword.
2 A knife used for killing animals.
3 [अस्यति सेवनेन पापानि] N. of a river to the south of Benares.
4 Breath (श्वास).
सि ind. The 2nd pers. sing. of the Present of अस् to be, used as an indeclinable in the sense of ‘त्वम्’ thou
as in कृतवानसि विप्रियं मे Ku. 4. 7 (where however असि may be taken as a verb).
Comp.
असि ind. sword against sword.
गंडः a small pillow for the cheeks
(असिः क्षिप्तो गंडो यत्र Tv.).
जीविन् a. one who earns his livelihood by means of swords, a soldier fighting for wages.
दंष्ट्रः,
दंष्ट्रकः the marine monster makara or crocodile (painted on the banner of Kāmadeva).
दंतः a crocodile.
धारा the edge of a sword
सुरगज इव दंतैर्भग्नदैत्यासिधारैः R. 10. 86, 41.
धाराव्रतं [असिधारायां स्थितिरिव दुष्करं व्रतं] {1} (according to some) the vow of standing on the edge of a sword
(according to others) the vow of keeping constant company with a young wife and yet steadily resisting the temptation of sexual intercourse with her
यत्रैकशयनस्थापि प्रमदा नोपभुज्यते असिधाराव्रतं नाम वदंति मुनिपुंगवाः or शयने मध्ये खड्गं विधाय स्त्रीपुंसौ यत्र ब्रह्मचर्येण स्वपतस्तत्
or युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् अंतर्निवृत्तसंगः स्यादसिधाराव्रतं हि तत् Yādava. {2} (hence fig.) any hopelessly difficult task
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं Bh. 2. 28, 64
असिधाराव्रतमिदं यदरिणासह संवासः Pt. 3.
धावः,
धावकः an armourer, furbisher.
धेनुः,
धेनुका [असिर्धेनुरिव यस्याः वा कप्] a knife
Vikr. 4. 69.
पत्र a. having sword-shaped leaves
जातं तमात्मन्यसिपत्रवृक्षं R. 14. 48. (
त्रः) {1} the sugar-cane. {2} a kind of tree which grows in the lower world. {3} a hell paved with swords. (
त्रं) {1} the blade of a sword. {2} a sheath, a scabbard. °वनं a hell where the trees have leaves as sharp as swords.
पत्रकः a sugar-cane.
पथः,
थं the course of the breath.
पुच्छः,
पुच्छकः the Gangetic porpoise.
पुत्रिका,
पुत्री a knife (असेः पुत्रीव).
मेदः [असिरिव तीक्ष्णो मेदो निर्यासो यस्य] the fetid Khadira (विट्खदिर).
हत्य a. to be killed with a sword. (
त्यं) fighting with knives or swords.
हेतिः [असिर्हेतिः साधनमस्य] a swordsman.
Apte Hindi
Hindi
असिः
पुं*
- अस्+इन्
तलवार
असिः
पुं*
- अस्+इन्
पशुओं की हत्या करने वाला चाकू
Wordnet
Sanskrit
Synonyms:
खड्गः, असिः, कृपाणः, चन्द्रहासः, कौक्षेयकः, मण्डलाग्रः, करबालः, करपालः, निस्त्रिंशः, शिरिः, विशसनः, तीक्ष्णधारः, दुरासदः, श्रीगर्भः, विजयः, धर्मपालः, कौक्षेयः, तरवारिः, तवराजः, शस्त्रः, रिष्टिः, ऋष्टिः, पारेरकः
noun
शस्त्रविशेषः।
"खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
असिः,
स्त्री,
(अस्यते अवगाहनेन पापानि दूरी-करोति या अस + इन् ।) नदीविशेषः साच काशीदक्षिणदिक्स्थिता यथा ।“तस्मात् विश्वेश्वराज्ञैव काशीवासेऽत्र कारणं ।असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते
वाराणसीति विख्याता तदारभ्य महामुने ।असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका
वाराणसीह करुणामयदिव्यमूर्त्ते-रुत्सृ ज्य यत्र तु तनुं तनुभृत् सुखेन ।विश्वेशदृङ्महसि यत् सहसा प्रविश्यरूपेण तां वितनुता पदवीं दधाति
जातो मृतो बहुषु तीर्थवरेषु ये त्वंजन्तोर्न जातु भवशान्तिरभून्निमज्य ।वाराणसीति गदतीह मृतोऽमृतत्वंप्राप्याधुना मम बलात् स्मरशासनः स्यात्”
इति काशीखण्डे ३० अध्यायः
असिः,
पुं,
(असतीति अस दीप्तौ इनि ।) अस्त्र-भेदः खाँडा तरवाल इत्यादि भाषा तत्प-र्य्यायः खड्गः निस्त्रिंशः चन्द्रहासः ४रिष्टिः कौक्षेयकः मण्डलाग्रः करपालः८ कृपाणः इत्यमरः
प्रबालकः १० भद्रात्मजः११ रिष्टः १२ ऋष्टिः १३ धाराविषः १४ कौक्षेयः१५ तरवारिः १६ तरवाजः १७ कृपाणकः १८करवालः १९ कृपाणी २० शस्त्रः २१ इतिशब्दरत्नावली
विषसनः २२ इति त्रिकांण्ड-शेषः
(“पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।वैरूप्यपौनरुक्तेन भीषणां तामयोजयत्”
इति रघवंशे १२ ४०
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले
”इति मनौ १९२
) तस्य स्तुतिर्यथा ।“असिर्व्विषसनः खड्गस्तीक्ष्णधारो दुरासदः ।श्रीगर्भो विजयश्चैव धर्म्मपालो नमोऽस्तु ते
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः
हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः ।पिता पितामहो देवस्त्वं मां पालय सर्व्वदा
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ।भावशुद्धोऽमर्षणश्च अतितेजास्तथैव
इयं येन धृता क्षौणी हतश्च महिषासुरः ।तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः”
इति वृहन्नन्दिकेश्वरपुराणीयदुर्गोत्सवपद्धतिधृत-वाराहीतन्त्रं