| YouTube Channel

असनः (asanaH)

 
E Bharati Sampat
Sanskrit
(पुं) अस्यति रुजम्। असु(क्षेपणे)+ल्युः। ‘नन्दिग्रहि०’ ३.१.१३४। १.सर्जवृक्षः, जीवकद्रुमः। (न) अस्यते अस+ल्युट् ‘ल्युट् च’ ३.३.११५। २.क्षेपणम्, निरसनम् ‘तृणनिरसने विनियोगः’ भवदेवः। ‘असनं क्षेपणे क्लीबं पुंसि स्यात् जीवकद्रुमे’*।
शब्दकल्पद्रुमः
Sanskrit
असनः,
पुं,
वृक्षविशेषः पियाशाल इति ख्यातः ।तत्पर्य्यायः महासर्ज्जः सौरिः बन्धूकपुष्पः४ प्रियकः वीजवृक्षः नीलकः प्रियसालकः ।(“प्रियविमानितमानवतीरुषांनिरसनैरसनैरवृथार्थता” ।इति शिशुपाले ।) अस्य गुणाः कटुत्वं उष्णत्वं ।तिक्तत्वं वातार्त्तिदोषगलदोषरक्तमण्डलनाशित्वं ।सारकत्वञ्च इति राजनिर्घण्टः
वृक्षभेदः ।आसन इयि ख्यातः तत्पर्य्यायः अजकर्णः २वनेसर्ज्जः महासर्ज्जः इति रत्नमाला
अस्य गुणाः कफपित्तनाशित्वं इति राज-वल्लभः ।(“वीजकः पीतसारश्च पीतशालक इत्यपि ।बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः
वीजकः कुष्ठवीसर्पश्वित्रमेहगुदक्रिमीन् ।हस्तिश्लेष्मास्नपित्तञ्च त्वच्यः केश्यो रसायनः”
इति भावप्रकाशेऽस्य पर्य्यायगुणौ कथितौ
)