| YouTube Channel

अष्टमी (aSTamI)

 
Spoken Sanskrit
English
अष्टमी aSTamI
f.
eighth day in a half-month
अष्टमी aSTamI
f.
eighth
Monier Williams Cologne
English
अष्टमी (ई),
f.
(i.e. रात्रि) the eighth day (night) in a half-month,
ĀśvGṛ.
Mn.
iv, 128,
&c.
Apte Hindi
Hindi
अष्टमी
स्त्री*
- "अष्टन्+डट् मट् च, ङीप्"
चान्द्रमास के दोनों पक्षों का आठवां दिन
Shabdartha Kaustubha
Kannada
अष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಎಂಟನೆಯ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-१५)
अष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾಡ್ಯ ಮೊದಲಾಗಿ ಪಕ್ಷದ ೮ನೆಯ ತಿಥಿ
निष्पत्तिः - > अष्टम - "ङीप्" (४-१-१५)
L R Vaidya
English
azwama {% (I) a. (f. मी) %} Eighth, M.ii.36, 37, x.120.
azwamI {% f. %} The eighth day of the first and second half of the lunar month.
Bopp
Latin
अष्टमी f. (fem. praecedentis) dies octavus mensis dimidiati.
DEV. 12. 3.
Wordnet
Sanskrit
Synonyms:
अष्टमी
noun
चान्द्रमासस्य कस्यापि पक्षस्य अष्टतमा तिथिः।
"कृष्णस्य जन्म भाद्रपदमासस्य अष्टम्याम् अभवत्।"
Sanskrit Tibetan
Tibetan
sa brgyad po
अष्टमी
पुराणम्
English
अष्टमी / AṢṬAMĪ. The third skandha of devī bhāgavata states that the goddess, bhadrakālī, came into life on an aṣṭamī day to block up the yāga of dakṣa. That is why the day is considered to be holy and important.
शब्दकल्पद्रुमः
Sanskrit
अष्टमी,
स्त्री,
(अष्टानां पूरणी अष्टम + ङीप् ।)क्षीरकाकोली इति शब्दचन्द्रिका
तिथि-विशेषः सा चन्द्रस्याष्टमकलाक्रियारूपा तदु-पलक्षितकालरूपा सा शुक्ला नवमी-युता ग्राह्या युग्मात् कृष्णा सप्तमीयुता ।यथा निगमः ।“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी ।पूर्व्वविद्धैव कर्त्तव्या परविद्धा कुत्रचित्
उपवासादिकार्य्येषु एष धर्म्मः सनातनः”
*
भविष्यपुराणे ।“चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।योऽब्दमेकं भुञ्जीत शिवार्च्चनपरो नरः
यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां ।तत्पुण्यं सकलं तस्य शिवलोकञ्च गच्छति”
ततश्च सततसत्रयाज्यक्षयपुण्यसमपुण्यप्राप्तिः शिव-लोकगतिश्च फलं फाल्गुनशुक्लाष्टमीचतुर्द्दश्यो-रारभ्य वर्षं यावत् प्रत्यष्टमीप्रतिचतुर्द्दश्युपवास-व्रतं
*
कालिकापुराणे ।“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।वरदाभयहस्ता द्विभुजा गौरदेहिका
रक्तपद्मासनस्था मुकुटकुण्डलमण्डिता ।रक्तकौषेयवस्त्रा तु स्मितवक्त्रा शुभानना
नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ।उमया भाषितं मन्त्रं यत् पूर्व्वं त्वेकमक्षरं
मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत्” ।एकमक्षरं शक्तिवीजरूपं ।“तथाष्टम्यां नवम्याञ्च पूजा कार्य्या विवृद्धये ।पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकां
यः पूजयेद्भौमवारे शुभैर्दूर्व्वाक्षतैः शिवां ।सततं साधकः सोऽपि काममिष्टमवाप्नुयात्”
*
ज्योतिषे शनैश्चरस्य वारेण वारेणाङ्गारकस्य ।“कृष्णाष्टमी चतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते”
तथा --“सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी ।चतुर्थङ्गारवारे अष्टमी वृहस्पतौ
अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः ।षष्टिजन्मसहस्राणि प्रतिजन्म तदक्षयं”
इति तिथ्यादितत्त्वं
*
श्रीकृष्णजन्माष्टमीव्रतंअष्टकाश्राद्धं भीष्माष्टमीकृत्यञ्च तत्तच्छब्दे द्रष्टव्यं
महाष्टमीकृत्यं महाष्टमीशब्दे द्रष्टव्यं
तत्रजातफलं ।“भूपालतः प्राप्तधनः कृशाङ्गःसुखी कृपालुर्युवतिप्रियश्च ।चतुष्पदाढ्यो धनधान्ययुक्तःस्यादष्टमीजो मनुजः सुधीरः
”इति कोष्ठीप्रदीपः
वाचस्पत्यम्
Sanskrit
अष्टमी स्त्री अष्टानां पूरणी षोडशकलात्मकचन्द्रस्य अष्टम-कलाक्रियारूपायां स्वनामख्यातायां तिथौ अष्टसंख्या-पूरण्याञ्च अष्टमशब्दे उदा० अशू + क्त अष्टं संघातंव्याप्तिं वा भाति मा--क गौरा० ङीष् कोटालतायाम्