| YouTube Channel

अश्वयुक् (azvayuk)

 
E Bharati Sampat
Sanskrit
(वि) (अश्वयुज्) अश्वयुजि अश्विनीनक्षत्रे जातः अश्वयुज् + अण् + लुक् "सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्" (४.३.१६) १. अश्विनीनक्षत्रजातः अश्वेन युनक्ति रथम् अश्व + युज् (युजिर्-योगे) + क्विप् "सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्" (३.१.६१) २. अश्वयोजकः (स्त्री) ३. अश्वेन युक्तः रथः अश्वेन हयमुखाकारेण युज्यते ४. अश्विनीनक्षत्रम् "अश्वयुगश्विनी" (अमरः १.३.११) अश्वेन अश्वाकारतया नक्षत्रेण युज्यते पौर्णमास्यत्र ५. आश्वयुजमासः चान्द्राश्विनमासः
Wordnet
Sanskrit
Synonyms:
अश्विनी, अश्वयुक्
noun
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतप्रथमनक्षत्रम्।
"अश्विन्याः अनन्तरं भरणी आगच्छति।"
शब्दकल्पद्रुमः
Sanskrit
अश्वयुक्, [ज्]
स्त्री,
(अश्वं युनक्ति रूपेणानुकरोतीतिअश्व + युज् + क्विप् ।) अश्विनीनक्षत्रं इत्यमरः
अश्वयुक्, [ज्]
पुं,
(अश्वेन नक्षत्रेण युक् युक्ता पौर्णमासी अस्त्यस्मिन ।) आश्विनमासः