| YouTube Channel

अश्मा (azmA)

 
E Bharati Sampat
Sanskrit
(पुं.) (अश्मन्) अश्नुते - अशू (व्याप्तौ सङ्घाते च) + मनिन् ‘अन्येभ्योऽपि दृश्यते’ (३.२.७५) १. शिला ‘अश्मनं दृषदं मन्ये मन्ये काष्ठमुदूखलम् अन्धायाश्च सुतं मन्ये यस्य माता पश्यति’ - जिनेन्द्र ‘पाषणप्रस्तरग्रावोपलाश्मानः शिला दृषत्’- अमरः २. पर्वतः ३. मेधः ४. मरकतमणिः ५. वज्रायुधम् ६. (वि) व्याप्तः, प्रसृतः
Wordnet
Sanskrit
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
पुराणम्
English
अश्मा / AŚMĀ. An ancient sage.