अश्मरी (azmarI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअश्मरी [aśmarī], [अश्मानं राति रा-क गौरा˚ ङीष्] (In medicine) A disease called stone (in the bladder), gravel, strangury. -घ्नः of the tree वरुण (used as a lithontriptic). -भेदनम् a lithontriptic. -हरः of the tree Pentaptera Arjuna, used as a lithontriptic (Mar. वायवरणा).
Apte 1890
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiअश्मरी
- अश्मानं राति इति रा+क +ङीप्
"एक रोग का नाम जिसे पथरी कहते है, मूत्रकृच्छ्र"
Shabdartha Kaustubha
Kannadaअश्मरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮೂತ್ರರೋಗ /ಕಲ್ಲಿನಂತೆ ಗಟ್ಟಿಯಾದ ಮಾಂಸಖಂಡವು ಮೂತ್ರದಲ್ಲಿ ಬೀಳುವ ರೋಗ
निष्पत्तिः - > रा (दाने) - "कः" (३-२-३) । "ङीष्" (४-१-४१)
व्युत्पत्तिः - > अश्मानं राति
विस्तारः - > "अश्मरी मूत्रकृच्छ्रं स्यात्" - अम० ।
E Bharati Sampat
Sanskrit(स्त्री) अश्मानं राति । अश्मन् + रा (दाने) + कः + ङीप् । ‘आतोऽनुपसर्गे कः’ (३.२.३) । ‘षिद्गौरादिभ्यश्च’ (४.१.४१) । मूत्रकृच्छ्ररोगः । ‘अश्मरी मूत्रकृच्छ्रं स्यात्’ - अमरः ।
Wordnet
Sanskrit अश्मरी
मूत्रद्वारा प्रस्तरम् इव कठिनमांसोत्सर्गः।
"औषधेन अश्मरी शमिता।"
अश्मरी
लघु अश्म।
"यदा अश्मना युक्ते मार्गे पादत्राणेन विना गम्यते तदा अश्मरी निस्तुदति। "
अभिधानचिन्तामणिः
Sanskritअश्मरी स्यान्मूत्रकृच्छ्रे प्रमेहो बहुमूत्रता ॥ ४७० ॥
अश्मरी (स्त्री), मूत्रकृच्छ्र (क्ली), प्रमेह (पुं), बहुमूत्रता (स्त्री)
शब्दकल्पद्रुमः
Sanskritअश्मरी, (अश्मानं राति ददाति या । अश्मन् +रा + क + गौरादित्वात् ङीप् । मूत्रकृच्छ्ररोगोहि मूत्रद्वारे प्रस्तरमिव कठिनमांसं रचयति ।)मूत्रकृच्छ्ररोगः । पातरी इति भाषा । यथा ।अथाश्मर्य्यधिकारः । अत्राश्मर्य्याः सन्निकृष्टनिदानंसङ्ख्याञ्चाह ।“वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता ।प्रायः श्लेष्माश्रयाः सर्व्वा अश्मर्य्यः स्युर्यमोपमाः” ॥
श्नेष्माश्रयाः श्लेष्मसमवायिकारणाः । शुक्रजांविना । शुक्रजायास्तु शुक्रस्यैव समवायिकारण-त्वात् । अन्ये तु शुक्राश्मर्य्यामपि कफकारणत्व-मिच्छन्ति । प्रायःशब्दश्चात्र विशेषार्थः । यमो-पमाश्चिकित्सां विना ॥
* ॥
सम्प्राप्तिमाह ।“विशोषयेद्वस्तिगतं सशुक्रंमूत्रं सपित्तं पवनः कफं वा ।यदा तदाश्मर्य्युपजायते तुक्रमेण पित्तेष्विव रोचना गोः ॥
पवनो वस्तिगतं सशुक्रं मूत्रं सपित्तं कफं वाशोषमुपनयेत् यदा तदा अश्मरी क्रमेण क्रमशोवर्द्धमाना । यथा गोः पित्तेषु रोचनेवेत्यन्वयः ॥
* ॥
पूर्व्वरूपमाह ।“नैकदोषाश्रयाः सर्व्वा अथासां पूर्व्वरूक्षणं ।वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ॥
मूत्रे वस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः” ।वस्तः छगलकः ॥
* ॥
सामान्यलक्षणमाह ।“सामान्यलिङ्गं रुङ्नाभिसेवनीवस्तिमूर्द्धसु ।विशीर्णधारं मूत्रं स्यात् तया मार्गनिरोधने ॥
तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमं ।तत्संक्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत्” ॥
वस्तिमूर्द्धा नाभेरधोदेशः । विशीर्णधारं सवि-च्छेदधारं । तया अश्मर्य्या । मार्गः मूत्रवाहिस्रोतः । तद्व्यपायात् कदाचिद्वायुना अश्मर्य्यामूत्रमार्गादन्यत्र गमनात् । सुखं मेहेत् मूत्रयेत् ।गोमेदकोपमं गोमेदको मणिः किञ्चिल्लोहित-स्तद्वर्णं । तत्संक्षोभात् तस्या अश्मर्य्याः सञ्चारात् ।घर्षणेन मूत्रवहे स्रोतसि क्षते जाते सास्रं सरक्तंमेहेत् । आयासात् प्रवाहनादिजनितात् ॥
* ॥
वातोल्वणामाह ।“तत्र वाताद्भृशं त्वार्त्तो दन्तान् खादति वेपते ।मृद्गाति मेहनं नाभिं पीडयत्यपि सङ्क्वणन् ॥
सानिलं मुञ्चति शकृन्मुहुर्म्मेहति विन्दुशः ।श्यावारुणाश्मरी चास्य स्याच्चिता कण्टकैरिव” ॥
सङक्वणन् आर्त्तनादं कुर्व्वन् नाभिदेशं पीडयति ।शकृत् पुरीषं सानिलं मुञ्चति । मुहुर्व्वारंवारं ।विन्दुशः विन्दुं विन्दुं मेहति मूत्रयेत् । श्यावे-त्यादि श्यावा किञ्चित् श्यामा । अरुणा किञ्चि-द्रक्ता । एवं चाश्मर्य्या वर्णाकारकथनं आ-कृष्याणां प्रत्यक्षसंवादिशास्त्रप्रामाण्यख्यापनार्थ-माहुः । चिताकण्टकैरिव वदरीवीजवत् क्षुद्रा-ङ्कुरैर्वेष्टिता ॥
* ॥
पित्तोल्वणामाह ।“पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् ।भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी” ॥
दह्यते साक्षादग्निनेव । वस्तिरिति मूत्रकोषः ।पच्यमानैव क्षारेणेव । उष्मवान् उष्णस्पर्शः ॥
* ॥
कफोल्वणामाह ।“वस्तिर्निस्तुद्यतैव श्लेष्मणा शीतलो गुरुः ।अश्मरी महती श्लक्ष्मा मधुवर्णाथवा सिता” ॥
महती कुक्कुटाण्डतुल्या । मधुवर्णा ईषत्पिङ्गल-शुक्ला ॥
“एता भवन्ति बालानां तेषामेव हि भूयसा ।आश्रयोपचयाप्लत्वात् ग्रहणाहरणे सुखाः” ॥
एताः दोषत्रयजनिताः बालानां स्युः ॥
यतः सर्व्वाएवाश्मर्य्यो विशेषतः श्लेष्मसमवायिकारणाः । बाला-स्तु विशेषतस्तन्निदानसेविनो भवन्ति । उक्तञ्चसुश्रुतेन । प्रायेणैता अश्मर्य्यो दिवास्वप्नसमश-नाध्यशनस्निग्धशीतगुरुमधुराहारप्रियत्वात् विशे-षेण बालानां भवन्तीति । भूयः पदोपादानात्महतामपि त्रिदोषजनिता भवन्ति । तेषामेवबालानामेव । ग्रहणाहरणे सुखाः ग्रहणं निष्का-सनार्थमङ्गुलिभ्यां । आहरणं पाचनादिपूर्व्वकंनिष्कासनं तत्र सुखाः सुखदाः । तत्र हेतुमाह ।आश्रयोपचयाप्लत्वादिति आश्रयो वस्तिः तस्यो-पचयः स्थौल्यं तस्याप्लत्वात् ॥
* ॥
शुक्राश्मरीमाह ।“शुक्राश्मरी तु महतां जायते शुक्रधारणात्” ।अव्ययानामनेकार्थत्वात् तु शब्दोऽत्रावधारणार्थः ।तेन महतामेव न तु बालानां । तेषां वक्ष्यमाण-सम्प्राप्तेरसम्भवात् । न तु शुक्राभावो वाच्यः ।शुक्रधारणात् वेगात् च्यवमानस्य शुक्रस्य धार-णात् ॥
* ॥
शुक्राश्मर्य्याः सम्प्राप्तिमाह ।“स्थानाच्चुतममुक्तं हि मूष्कयोरन्तरेऽनिलः ।शोषयत्युपसंहृत्य शुक्रं तच्छुक्रमश्मरी” ॥
अनिलः मैथुनवेगेन स्थानाच्च्युतं । अमुक्तं मैथुन-वेगधारणेन धृतं शुक्रं । मुष्कयोः मेढ्रसहितयोः ।मेढ्रवृषणयोरन्तर इति सुश्रुतवचनात् । तेनमेढ्रवृषणमध्यगतवस्तिमुखे उपसंहृत्य एकीकृत्यशोषयति । तच्छुक्रमश्मरी तथाभूतं शुक्रमेवा-श्मरी ॥
* ॥
अस्या लक्षणमाह ।“वस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी ।तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ॥
पीडिते त्ववकाशेऽस्मिन्नश्मर्य्येव च शर्करा” ।तस्यां शुक्राश्मर्य्यां । उत्पन्नगात्रायां यदा सा कथ-मपि विलीयते विलयं याति तदा शुक्रं एतिमूत्रमार्गात् प्रवर्त्तते । पीडिते त्ववकाशेऽस्मिन्तुशब्दोऽवधारणे । तेन अस्मिन्नेव अवकाशेस्थाने मेढवृषणयोरन्तरे पीडिते सति साविलीयते अन्तर्ल्लीना भबति ॥
अवस्थाभेदादश्मरीशर्करा सिकता भवतीत्याह । अश्मर्य्येव च शर्कराचकरात् सिकता च भवति । शर्करासिकतयोश्चभेदो महत्वाल्पत्वाभ्यां बोद्धव्यः ॥
कथं अश्मरीशर्करा भवतीत्याह । सा भिन्नमूर्त्तिर्वातेन शर्क-रेत्यभिधीयते । सा अश्मरी ॥
* ॥
शर्करायाः पात-मवरोधञ्च सहेतुकमाह ।“अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ।निरेति सहमूत्रेण प्रतिलोमे विबध्यते ।मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्य्यादुपद्रवान्” ॥
सा अश्मरी । तस्मिन् वायौ । अनुलोमगे मूत्र-स्रोतःसु सम्यक्प्रवृत्ते मूत्रेण सह सा शर्करानिरेति पतति । प्रतिलोमगे ऊर्द्ध्वप्रवृत्ते वायौविबध्यते । तदा मूत्रस्रोतः श्रिता सक्ता लग्नास्यात्तदा उपद्रवान् कुर्य्यात् । तानेवोपद्रवानाह ।“दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिं ।पाण्डुत्वमुष्मवातञ्च तृष्णां हृत्पीडनं वमिं” ॥
दौर्ब्बल्यमिन्द्रियाणां । सदनं अवसन्नत्वं । का-र्श्यमङ्गानां । उदरैकदेशे शूलं । उष्मवातं मूत्रा-घातविशेषं ॥
* ॥
अश्मरी शर्करा सिकताना-मरिष्टमाह ।“प्रसूननाभिवृषणं बद्धमूत्रं रुजान्वितं ।अश्मरी क्षप्रयत्याशु शर्करा सिकतान्विता” ॥
शर्करा सिकतेति च नामद्वयमन्वर्थं ॥
* ॥
अथाश्मर्य्याश्चिकित्सा ।“शुण्ठ्यग्निमन्थपाषाणभिद्रुग्वरुणगोक्षुरैः ।अभयारग्वधफलैः क्वाथं कृत्वा विचक्षणः ॥
रामठक्षारलवणचूर्णं क्षिप्त्वा पिबेन्नरः ।अश्मरी मूत्रकृच्छञ्च नाशमायाति निश्चितं ॥
क्वाथः शुण्ठ्यादिनामायं दीपनः पाचनः परं ।हन्ति कोष्ठाश्रितं वातं कण्ठरुग्गदमेढ्रजं” ॥
रुक्कुष्ठं ।शुण्ठ्यादिक्वाथः ॥
* ॥
“एलोपकुल्यामधकाश्मभेद-कौन्तीश्वदष्ट्रावृषकोरुवूकैः ।श्रितं पिबेदश्मजतुप्रगाढंसशर्करं मूत्रगदेऽश्मरीषु” ॥
उरुवूक एरण्डस्तस्यात्र मूलं । मूत्रगदे मूत्रकृच्छ्रे ।एलादिक्वाथः ॥
* ॥
“कुष्माण्डकरसं हिङ्गुयवक्षारयुतं पिबेत् ।वस्तौ मेढ्रे शूलयुक्ते अश्मरीशर्कराञ्जयेत्” ॥
* ॥
“वरुणत्वक्शिलाभदशुण्ठीगोक्षुरकैः कृतः ।कषायक्षारसंयुक्तः शर्करां परतयत्यधः” ॥
क्षारो यवक्षारः ॥
* ॥
“त्रिकण्टकस्य वीजानां चूर्णं माक्षिकसंयुतं ।अवीक्षीरेण सप्ताहादश्मरीनाशनं पिबेत्” ॥
अवीर्म्मेषी ॥
* ॥
“वरुणत्वक्कषायस्तु पीती गुडसमन्वितः ।अश्मरीं पातयत्याशु वस्तिशूलञ्च नाशयेत्” ॥
* ॥
“क्वाथो वरुणमूलस्य तस्य कल्केन संयुतः ।शिग्रुमूलस्य च क्वाथः कटूष्णश्चाश्मरीं हरेत्” ॥
* ॥
“शृङ्गवेरयवक्षारपथ्याकालीयकान्वितः ।दधिमण्डो भिनत्त्युग्रामश्म रीमाशु पानतः” ॥
शृङ्गवेरं नागरं ॥
* ॥
“नो जग्धं कृमिभिर्घनंसुतरुणं स्निग्धं शुचिस्थानजंघस्रे पुण्यनिरीक्षिते वरुणकं छित्त्वा तुलां ग्राहयेत् ।संगृह्याशु चतुर्गुणाभ्व्वपि पचेत् पादावशेषं जलंतत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत् पुनः ॥
ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलंशुण्ठ्यैर्व्वारुकवीजगोक्षुरकणापाषाणभिच्छीतला ।कुष्माण्डत्रपूषाक्षवीजकुनटीवास्तूकशोभाञ्जनंद्राक्षैलागिरिजाभयाकृमिहृतांचूर्णीकृतानाङ्क्षिपेत् ॥
पथ्याशी प्रतिवासरं गुडममुं योऽक्षप्रमाणं नरःखादेत्तस्य समस्तदोषजनिताश्मर्य्यः पतन्ति द्रुतं” ।एर्व्वारुकवीजं कर्कटीवीजं । पाषाणभित् हाथा-छोडीति लोके । शीतला नीलदूर्व्वा । तथाच ।“नीलदूर्व्वा स्मृता शस्यं शाद्वलं हरितं तथा ।शतपर्ब्बा शीतकूम्भी शीतला वामनी तथा” ॥
इति निर्घण्टौ धन्वन्तरिः ॥
कुनटी धान्यकं ।गिरिजं शिलाजतु । कृमिहृत् विडङ्गं । वरुणा-दिगुडः ॥
* ॥
“मञ्जिष्ठा त्रापुषं वीजं जीरकः शतपुष्पिका ।धात्रीफलं वदरकं गन्धकञ्च मनःशिला ॥
एतेषां समभागानां चूर्णं टङ्कमितं नरः ।भक्षयेन्मधुना सार्द्धं पतेत्तस्याश्मरी ध्रुवं” ॥
* ॥
“पलद्वयमिते कोष्णे कुलत्थस्य शृते तु यः ।लवणं शरपुङ्खस्य सार्द्धमाषद्वयोन्मितं ॥
क्षिप्त्वा पिबेत् पतेत्तस्य मूत्रेण सममश्मरी ।शर्करा सिकता चापि दृष्टमेतदनेकधा” ॥
इत्यश्मर्य्यधिकारः ॥
* ॥
इति भावप्रकाशः ॥
(अस्या निरुक्तिमाह भोजः ।“तुल्यतामश्मना याति तस्मात्तामश्मरीं विदुः” ।इति माधवकृतरुग्विनिश्चयस्यान्यतमटीकाकृतोक्तं ॥
“पितृमातृकदोषेण अथवा मूत्ररोधनात् ।अतिपथ्याक्षाभिचारैर्जायते चाश्मरीगदः ॥
मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदि ।मूत्रेण सहितं युक्तं च्यवते गर्भसम्भवं ॥
पञ्चजस्य स्वदेहस्य स च तत्र प्रजायते ।मूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ॥
सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषे ।तारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ॥
विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वा ।शुक्रञ्च प्रवहेत्तस्य स्त्रीशुक्रं विचिनोति च ॥
पुनश्च मेहने वासः वातेन शोणितञ्च तत् ।द्वयं दत्तं प्रपद्येत मूत्रद्वारं रुणद्धि च ॥
तेन मूत्रप्ररोधश्च जायते तीव्रवेदना ।अण्डसन्धिस्थिता याति शर्करा शस्त्रसाध्यका ॥
अतो वक्ष्यामि भैषज्यं शृणु पुत्त्र ! महामते” ।अस्याश्चिकित्सा यथा ॥
“शुण्ठीगोक्षुरकस्यैव वरुणस्य त्वचस्तथा ।क्वाथो गुडयवक्षारयुतश्चाश्मरिनाशनः ॥
१ ॥
गोक्षुरकस्य वीजानां धातुमाक्षिकसंयुतं ।चूर्णं माहिषदुग्धेन पानञ्चाश्मरिपातनं” ॥
२ ॥
अस्यां पथ्यानि यथा ॥
“पुराणयष्टिकाशालिरक्ततण्डुलकास्तथा ।श्यामाकः कोद्रवोद्दालो मर्कटीतृणधान्यकं ॥
कुलत्थयवगोधूमास्तथाचैवाढकी भिषक् ।वातघ्नाश्च प्रयोक्तव्या भोजने वातरोगिणां ॥
क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरिनाशने” ॥
इति हारीतः ॥
“विशोषयेद्वस्तिगतन्तु शुक्रंमूत्रं सपित्तं पवनः कफं वा ।यदा तदाश्मर्य्युपजायते तुक्रमेण पित्तेष्विव रोचना गोः ॥
कदम्बपुष्पाकृतिरश्मतुल्याश्लक्ष्णा त्रिपुट्याप्यथवापि मृद्वी ।मूत्रस्य चेन्मार्गमुपैति रुद्धामूत्रं रुजां तस्य करोति वस्तौ ॥
ससीवनीमेहनवस्तिशूलंविशीर्णधारञ्च करोति मूत्रं ।गृह्णाति मेढ्रं स तु वेदनार्त्तोमुहुः शकृन्मुञ्चति मेहते च ॥
क्षोभात् क्षते मूत्रयतीह सासृक्तस्याः सुखं मेहति च व्यपायात् ।एषाश्मरी मारुतभिन्नमूर्त्तिःस्याच्छर्करामूत्रपथात् क्षरन्ती” ॥
* ॥
चिकित्सा यथा ॥
* ॥
“क्रिया हिता त्वश्मरिशर्कराभ्यांकृच्छ्रे तथैवेह कफानिलाभ्यां ।कार्य्यश्मरीभेदनपातनायविशेषयुक्तं शृणु कर्म्मसिद्धं ॥
पाषाणभेदं वृषकं श्वदंष्ट्रा-पाठाभयाव्योषशठीनिकुम्भाः ।हिंस्रीखराश्वासितिमारकाभ्या-मेर्व्वारुकाणां त्रपुषस्य वीजं ॥
उपकुञ्चिका हिङ्ग सवेतसाम्लंस्याद् द्वे वृहत्यौ हपुषा वचा च ।चूर्णं पिबेदश्मरिभेदि पक्वंसर्पिश्च गोमूत्रचतुर्गुणन्तैः ॥
१ ॥
शिग्रोस्तु यूषो मृदुमूलकल्का-द्विल्वप्रमाणाद्घृततैलभृष्टात् ।शीतोऽश्मभित्स्याद्दधिमण्डयुक्तंपेयः प्रकामं लवणेन युक्तः ॥
२ ॥
जलेन शौभाञ्जनमूलकल्कःशृतो हितश्चाश्मरिशर्कराभ्यां ॥
३ ॥
पीत्वा च मद्यं निगदं रथेनहयेन वा शीघ्रजवेन यायात् ।तैः शर्करा प्रच्यवतेऽश्मरी तुशाम्येन्नचेच्छल्यविदुद्धरेत्तां” ॥
४ ॥
अस्यां वर्ज्जनीयान्याह ।व्यायामसन्धारणशुष्कभक्ष्य-पिष्टान्नवातार्ककरव्यवायान् ।खर्ज्जूर-शालूक-कपित्थ-जम्बुविषं कषायञ्च रसं भजेन्न” ॥
इति च चरकः ॥
)चतस्रोऽश्मर्य्यो भवन्ति । श्लेष्मणा वातेन पित्तेनशुक्रेण चेति ॥
तत्रासंशोधनशीलस्यापथ्यका-रिणः प्रकुपितः श्लेष्मामूत्रसम्पृक्तोऽनुप्रविश्यवस्तिमश्मरीं जनयति । तासां पूर्व्वरूपाणिवस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्कशे-फसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वंमूत्रस्येति ॥
“यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलं ।पूर्व्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः” ॥
अथ जातासु नाभि-वस्ति-सेवनी-मेहनेष्वन्यतम-स्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिर-मूत्रता मूत्रविकिरणञ्च गोमेदकप्रकाशमनाविलंससिकतं विसृजति धावन-लङ्घन-प्लवन-पृष्ठ-याना-ध्वगमनैश्चास्य वेदना भवति ॥
तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुप-लिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रो-तो विरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यतेनिस्तुद्यत इव च वस्तिर्गुरुः शीतश्च भवति । अश्मरीचात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशामधूकपुष्पवर्णा वा भवति तां श्लैष्मिकीमितिविद्यात् ॥
पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परि-वृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धितस्य मूत्रप्रतीघातादुष्यते चूष्यते दह्यते पच्यतेइव वस्तिरुष्णवातश्च भवति । अश्मरी चात्र सरक्तापीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधु-वर्णा वा भवति तां पैत्तिकीमिति विद्यात् ॥
वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परि-वृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धितस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति तथात्यर्थंपीड्यमानो दन्तान् खादति नाभिं पीडयति मेढ्रंमृद्गाति वायुं स्पृशति विशर्द्धते विदहति वात-मूत्रपुरीषाणि कृच्छ्रेण वास्य मेहतो निःसरन्ति ।अश्मरी चात्र श्यामा परुषा विषमा खरा कदम्ब-पुष्पवत् कण्टकाचिता भवति तां वातिकीमितिविद्यात् ॥
प्रायेणैतास्तिस्रोऽश्मर्य्यो दिवास्वप्न-समशनाध्यशन-शीत-स्रिग्ध-गुरु-मधुराहारप्रियत्वाद्विशेषेण बा-लानां भवन्ति तेषामेवाल्पवस्तिकायत्वादनुपचित-मांसत्वाच्च वस्तेः सुखग्रहणाहरणा भवन्ति ॥
मह-तान्तु शुक्राश्मरी शुक्रनिमित्ता भवति । मैथुनाभि-घातादतिमैथुनाद्वा शुक्रश्च तिलमनिर्गच्छद्विमार्ग-गमनादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरेसंहरति संहृत्य चोपशोषयति सा मूत्रमार्गमा-वृणोति मूत्रकृच्छ्रं वस्तिवेदनां वृषणयोश्च श्वयथु-मापादयति पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रवि-लयमापद्यते तां शुक्राश्मरीमिति विद्यात् ॥
अस्याश्चिकित्सा यथा ॥
“अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः ।औषधैस्तरुणः साध्यः प्रवृद्धञ्छेदमर्हति ॥
तस्य पूर्व्वेषु रूपेषु स्नेहादिक्रम इष्यते ।तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ॥
घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरवस्तिभिः ।यदि नोपशमं गच्छेत् छेदस्तत्रोत्तरो विधिः ॥
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा ।उपक्रमो जद्यन्योऽयमतः स परिकीर्त्तितः ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।तस्मादापृच्छ्य कर्त्तव्यमीश्वरं साधुकारिणा” ॥
अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत् क-शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतवलिमङ्गल-स्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपक-ल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लव-माजानुसमे फलके प्रागुपवेश्य पुरुषञ्च तस्योत्सङ्गेनिषन्नपूर्व्वकायमुत्तानमुन्नतकटीकं वस्त्रधारकोप-विष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धंसूत्रेण शाटकैर्व्वा ततः स्वभ्यक्तनाभिप्रदेशस्यवामपार्श्वं विमृद्य मुष्टिनावपीडयेदधोनाभेर्याव-दश्मर्य्यधः प्रपन्नेति । ततः स्नेहाभ्यक्ते कॢप्तनखेवातहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसे-वनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीयनिर्व्यलीकमनायतमविषमञ्च वस्ति सन्निवेश्य भृश-मुत्पीडयेदङ्गुलिभ्यां यथाग्रन्थिरिवोन्नतं शल्यंभवति ॥
“सचेद्गृहीतशल्ये तु विवृताक्षो विचेतनः ।हतवल्लम्बशीर्षश्च निर्व्विकारो मृतोपमः ॥
न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः ।विना त्वेतेषु रूपेषु निर्हर्त्तुं समुपाचरेत् ॥
”इति सुश्रुतः ॥
“अयोरजः श्नक्ष्णपिष्टं मधुना सह योजयेत् ।अश्मरीं विनिहन्त्याशु मूत्रकृच्छ्रञ्च दारुणं ॥
”॥
* ॥
लौहप्रयोगः ॥
* ॥
इति वैद्यकरसेन्द्रसारसंग्रहः ॥
)
वाचस्पत्यम्
Sanskritअश्मरी स्त्री अश्मानं राति रा--क गौरा० ङीष् । मूत्रकृच्छ्र-रोगे स हि मूत्रद्वारा प्रस्तरमिव कठिनमांसं रेचयतिइति तस्य तथात्वम् । तन्निदानादि सुश्रुते उक्तं यथा ।“अथातोऽश्मरीणां निदानं व्याख्यास्यामः ॥
चतस्रोऽश्मर्य्योभवन्ति श्लेष्माधिष्ठानास्तद्यथा श्लेष्मणा वातेन पित्तेन शु-क्रेण चेति ॥
तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितःश्लेष्मा मुत्रसम्पृक्तोऽनुप्रविश्यवस्तिम्, अश्मरीं जनयति तासांपूर्व्वरूपाणि वस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्क-शेफसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वं मूत्रस्येति ॥
यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलम् । पूर्व्वरूपेऽश्मनःकृच्छ्रान्मूत्रं सृजति मानवः ॥
अथ जातासु नाभिवस्ति-सेवनीमेहनेष्वन्यतमे मेहतोवेदना मूत्रधारासङ्गः सरु-धिरमूत्रता मूत्रविकिरणञ्च गोमेदं प्रकाशमनाविलं ससि-कतं विसृजति धावनलङ्घनप्लवनपृष्ठेयानाध्वगमनैश्चास्यवेदना भवति ॥
तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽ-त्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतोनिरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते मिद्यते निस्तुद्यत इववस्तिर्गुरुः शीतश्व भवति । अश्मरी चात्र श्वेता स्निग्धामहती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्ण्णा वा भवति तांश्लैष्मिकीमिति विद्यात् ॥
पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्ययथोक्तां परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरु-णद्धि तस्य मूत्रप्रतिघातादुष्यते चूष्यते दह्यते पच्यत इववस्तिरुष्णवातश्च भवति । अश्मरी चात्र सरक्ता पीतावभासाकृष्णा भल्लातकास्थिप्रतिमा मधुवर्ण्णा वा भवति तां पैत्तिकी-मिति विद्यात् ॥
वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तांपरिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्यमूत्रप्रतिघातात्तीव्रा वेदना भवति तथात्यर्थं पीड्यमानोदन्तान् खादति नाभिं पीडयति मेढ्रं मृद्गाति पायुं स्पृश-ति विशर्द्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण वास्यमेहतो निःसरन्ति । अश्मरी चात्र श्यामा परुषा विषमाखरा कदम्बपुष्पवत्कण्टकाचिता भवति तां वातिकीमिति वि-द्यात् । प्रायेणैतास्तिस्रो ऽश्मर्य्यो दिवास्वप्नसमशनाध्यशनशीत-स्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति । तेषा-मेवाल्पवस्तिकायत्वादनुपचितमांसत्वाच्च वस्तेः सुखग्रहणाहरणा भवन्ति ॥
महतान्तु शुक्राश्मरी शुक्रनिमित्ता भवति ।मैथुनाभिघातादतिमैथुनाद्वा शुक्रञ्चलितमनिर्गच्छद्विमार्गगम-नादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्य-चोपशोषयति सा मुत्रमार्गमावृणोति मूत्रकृच्छ्रं वस्तिवेदनांवृषणयोश्च श्वयथुमापादयति पीडितमात्रे च तस्मिन्नेव प्रदे-शे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात् ॥
भवन्तिचात्र ॥
शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् ॥
अश्मर्य्याः शर्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥
पवनेऽनुगुणेसा तु निरेत्यल्पा विशेषतः । सा भिन्नमूत्तिर्वातेन शर्करेत्य-भिधींयते ॥
ह्वत्पीडासक्थिसदमं कुक्षिशूलः सवेपथुः ।तृष्णोर्द्ध्वगोऽनिलः कार्ष्ण्यं दौर्ब्बल्यं पाण्डुगात्रता ॥
अ-रोचकाविपाकौ तु शर्करार्त्ते भवन्ति च । मुत्रमार्गप्रवृत्तासा सक्ता कुर्य्यादुप्रद्रवान् ॥
दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशू-लमरोचकम् । पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ॥
नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम् । एकद्वारस्तनुत्वक्को मध्येवस्तिरधोमुखः ॥
अलाद्वा इव रूपेण सिरास्नायुपरिग्रहः ।वस्तिर्व्वस्तिशिरश्चैव पौरुषं वृषणौ गुदम् ॥
एकसम्बन्धिनोह्येते गुदास्थिविवरस्थिताः । मूत्राशयो मलाधारः प्राणा-यतनमुत्तमम् ॥
पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः ॥
तर्प्पयन्ति सदा मूत्रं सरितः सागरं यथा ॥
सूक्ष्मत्वा-न्नोपलभ्यन्ते मुखान्यासां सहस्रशः । नाडीमिरुपनीतस्यमूत्रस्यामाशयान्तरात् ॥
जाग्रतः स्वपतश्चैव स निःष्यन्देनपूर्य्यते । आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्य्यते नवः ॥
घटो यथा तथा विद्धि वस्तिर्मूत्रेण पूर्य्यते । एवमेव प्रवे-शेन वातः पित्तं कफोऽपि वा ॥
मूत्रयुक्त उपस्नेहात् प्र-विश्य कुरुतेऽश्मरीम् । अप्सु स्वच्छास्वपि यथा निषिक्तासुनवे घटे ॥
कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा । संह-न्त्यपो यथा दिव्या मारुतोऽग्निश्च वैद्युतः ॥
तद्वद्वलासंवस्तिस्थमुष्मा संहन्ति सानिलः । मारुते प्रगुणे वस्तौ मूत्रंसम्यक् प्रवर्त्तते ॥
विकारा विविधाश्चापि प्रतिलोमे भवन्तिहि ॥
मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च । मूत्रदोषाश्चये केचिद्वस्तावेव भवन्ति हि” सुश्व० “अश्मरीं क्षप-यत्याशु सिकताशर्करान्विताम्” सुश्रु० । अयञ्च महा-पापजत्वान्महारोगः । “उन्मादस्त्वग्दोषो राजयक्ष्माश्वासोमधुमेहो भगन्दरः । उदरोऽश्मरीत्यष्टौ महा-रोगाः” शु० त० नार० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
