| YouTube Channel

अव्याहतं (avyAhataM)

 
शब्दकल्पद्रुमः
Sanskrit
अव्याहतं, त्रि, (न व्याहतम् नञ्तत्पुरुषः ।)व्याघातशून्यं यथा ।“यस्य त्रिकालममलं ज्ञानमव्याहतं सदा ।वेत्ति विद्यामविद्याञ्च वाच्यो भगवानिति”
इति शब्दमाला
किञ्च विष्णुपुराणम् ।“अन्नं बलाय मे भूमेरपामग्न्यनिलस्य ।भवत्वेतत् परिणतौ ममास्त्वव्याहतं सुखम्
प्राणापानसमानानामुदानव्यानयोस्तथा ।अन्नं तुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम्”
इत्याह्णिकाचारतत्त्वम्
(अकुण्ठितं यथा, --“वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः” ।इति मार्कण्डेयपुराणे ।)