| YouTube Channel

अव्यङ्गः (avyaGgaH)

 
E Bharati Sampat
Sanskrit
(वि) व्यङ्गम् (विकलम् अङ्गम्) अस्य अविकलाङ्गः, पूर्णः ‘तत आहूय धर्मज्ञं ब्राह्मणं वेदपारगम् अव्यङ्गावयवं पूज्य गन्धधूपार्चनादिभिः’ (मास्यपु.अ ६६)
शब्दकल्पद्रुमः
Sanskrit
अव्यङ्गः, त्रि, (न सन्ति व्यङ्गानि यस्य ।) व्यङ्ग-रहितः अविकलाङ्गः यथा, --“तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगं ।अव्यङ्गावयवं पूज्य गन्धधूपार्च्चनादिभिः”
इति मत्स्यपुराणे ६६ अध्यायः