| YouTube Channel

अवहित्था (avahitthA)

 
Apte 1890
English
अव(ब)हित्था
त्थं 1 Dissimulation in general.
2 Dissimulation or concealment of an internal feeling, regarded as one of the 33 subordinate feelings (व्यभिचारिभाव)
भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था S. D.
or according to R. G. व्रीडादिना निमित्तेन हर्षाद्यनुभावानां गोपनाय जनितो भावविशेषोऽवहित्थं
for ex. see Ku. 6. 84, or Bv. 2. 80.
Monier Williams Cologne
English
अवहित्था
f.
id.,
Daśar.
Sāh.
&c.
Monier Williams 1872
English
अवहित्था अ-वहि-त्था, f., अम्, n. (corrupted
fr. अ-वहिः-स्था), dissimulation.
Apte Hindi
Hindi
अवहित्था
स्त्री*
- बहिः तिष्ठति इति - स्था+क पृषो
पाखंड
अवहित्था
स्त्री*
- बहिः तिष्ठति इति - स्था+क पृषो
"आन्तरिक भावगोपन, तैंतीस व्यभिचारिभावों में से एक "
Shabdartha Kaustubha
Kannada
अवहित्था
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭಯ /ಲಜ್ಜೆ ಮುಂತಾದುವುಗಳಿಂದ ಹರ್ಷ ಮೊದಲಾದ ಅನುಭವಗಳನ್ನು ಅಡಗಿಸಿಕೊಳ್ಳುವುದು
निष्पत्तिः - > अव + ष्ठा (गतिनिवृत्तौ) - "कः" (३-२-४)
व्युत्पत्तिः - > बहिः तिष्ठति
प्रयोगाः - > "एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी लीलाकमलपत्राणि गणयामास पार्वती ॥"
उल्लेखाः - > कुमा० ६-८४
L R Vaidya
English
avahitTA {% f. %} The same as अवहित्थ q.v.
E Bharati Sampat
Sanskrit
(स्त्री) बहिः (तिष्ठति इति) अबहिः + ष्ठा (गतिनिवृत्तौ) + कः + टाप् ‘सुपिस्थः’ (३.२.४) (पृषोदरादित्वात् साधुः) व्यभिचारिभावभेदः १. हृद्गतः भावः "भय गौरव लज्जादे र्हर्षाद्याकारगुप्ति वहित्था" (सा.द ३.१५८) ‘एवं वादिनि देवर्षौ पार्श्चे पितुरधोमुखी लीलाकमलपत्राणि गणयामास पार्वती" - कुमा० ६.८४
व्यभिचारि भावभेदः "एवं वादिनिदेवर्षौ पार्श्वे पितुः अधोमुखी लीलाकमलपत्राणि गणयामासपार्वती (कुमा. ६.८४) "अवहित्थाकारगुप्तिः (अमरः)
Wordnet
Sanskrit
Synonyms:
अवहित्था
noun
आकारगोपनस्य क्रिया।
"तस्य अवहित्था असफला जाता।"
अभिधानचिन्तामणिः
Sanskrit
--source--
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती
हृल्लेखोत्कलिके चाथावहित्थाकारगोपनम् ३१४
-wordlist-
औत्सुक्य (क्ली), रणरणक (पुं), उत्कण्ठा (स्त्री), आयल्लक (क्ली), अरति (स्त्री), हृल्लेख (पुं), उत्कलिका (स्त्री), अवहित्था (स्त्री), आकारगोपन (क्ली)
शब्दकल्पद्रुमः
Sanskrit
अवहित्था,
स्त्री,
क्ली,
(न वहिस्तिष्ठतीति अवहिः +स्था + + टाप् पृषोदरादित्वात् साधुः ।)आकारगुप्तिः रत्यादिसूचकोमुखरागादिरा-कारः अङ्गवैकृतमिति वोपालितः
भयलज्जा-दिना तस्य गोपनं इत्यमरटीकायां भरतः
(तल्लक्षणं, यथा साहित्यदर्पणे, --“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।व्यापारान्तरसक्त्यान्यथाभाषण-विलोकनादि-करी”
उदाहरणम् यथा कुमारसम्भवे, --“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।लीलाकमलपत्राणि गणयामास पार्ब्बती”
लज्जावशात् कमलदलगणनाव्याजेन हर्षं जुगोपइत्यर्थः अनेन अवहित्थाख्यः सञ्चारी भाव उक्तः, तदुक्तं, --“अवहित्था तु लज्जादेर्हर्षाद्याकारगोपनं” ।इति मल्लिनाथः ।)
वाचस्पत्यम्
Sanskrit
अव(ब)हित्था स्त्री बहिस्तिष्ठति स्था--क पृषो० हृद्गत-भावे “भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरबहित्था, व्यापारान्तरासक्त्यन्यथावभाषणाविलोकनादिकरी” सा० द० उक्तेव्यभिचारिभावभेदे “एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखीलीलाकमलपत्राणि गणयामास पार्व्वती” कुमा० अयंवर्ग्यबमध्यस्तु न्याय्यः