| YouTube Channel

अवमः (avamaH)

 
E Bharati Sampat
Sanskrit
(पुं) अव + (रक्षणादौ) + अमः (उ ५.५४) १. पितॄणां कश्चन समूहः ‘त्रिविधाः पितरः - ‘अवमाः ऊर्ध्वाः काव्याह्नेति अनुसवनं नारांशंसदेवताः’ - वेदभाष्यम् (न) २. पापम् ३. अवमदिनम्, क्षीणा तिथिः ‘तिथ्यन्तद्वयमेको दिनकरः स्पृशति यत्र तद्भवत्यवमदिनम्’ - ज्योतिषतत्त्वम् (वि) ४. नीचः, अधमः ‘अनलकानलकानमवमां पुरीम्’ - रघुः ‘निकृष्टप्रतिकृष्टार्वरेफथाप्यावमाधमाः’ - अमरः ५. निम्नवर्गीयः ६. पापात्मा
Wordnet
Sanskrit
Synonyms:
अधम, प्रतिकृष्ट, अवमः, निकृष्ट, अर्वा, रेफः, याप्यः, कुत्सितः, अवद्यः, कुपूयः, खेटः, गर्ह्यः, अणकः, रेपः, अरमः, आणकः, अनकः
adjective
यद् अत्यन्तम् अपकृष्टम् अस्ति।
"तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।"
Synonyms:
अधमः, क्षुद्रः, नीचः, नराधमः, अवमः
noun
भयदयालज्जाशून्यः पुरुषः।
"अधमः नीचकार्यं कर्तुं बिभेति।"
शब्दकल्पद्रुमः
Sanskrit
अवमः, त्रि, (अवति अस्मात् आत्मानम्, अव रक्ष-णादौ, अवद्येति सूत्रेण अवतेः अमः प्रत्ययोनिपातितः अवो भवो वा, अवोधसोर्लोप-श्चेति मः ।) अधमः निन्दितः इत्यमरः
(“अनलकानलकानवमां पुरीम्” इति रघुवंशे ।)