| YouTube Channel

अवभ्रटः (avabhraTaH)

 
E Bharati Sampat
Sanskrit
(वि) अवनतं नासिकायाः ‘भ्रटच्’ ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१) अवभ्रटम् तद्योगान्नासिकाप्यवभ्रटा सास्यास्ति अच् "अर्श आदिभ्योऽच्" (५.२.१२७) नतनासिकायुक्तः "अवटीटोऽवनाटश्चावभ्रटो नतनासिके" - अमरः
शब्दकल्पद्रुमः
Sanskrit
अवभ्रटः, त्रि, (अवनतं नासिकायाः, नते नासि-कायाः संज्ञायामिति भ्रटच् अवभ्रष्टा नासिकाअस्ति अस्य इति अर्श आद्यच् ।) नतनासिक-व्यक्तिः इत्यमरः
खाँदा इति भाषा