| YouTube Channel

अवधारितः (avadhAritaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + धृञ् (धारणे) णिच् + क्तः "निष्ठा" (३.२.१०२) १. निश्चितः, निर्धारितः "चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्" - माघ० १.३ २. इतरवस्तुभ्यो व्यावर्तितः
शब्दकल्पद्रुमः
Sanskrit
अवधारितः, त्रि, (अव + धृ + णिच् + क्त ।) कृता-वधारणः यथा ।“त्वया सुमुखि किं प्रोक्तं मया ह्यवधारितं ।विवेचय महाभागे सङ्केतो वर्त्तते खलु”
इति व्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २० अध्यायः