| YouTube Channel

अवदातः (avadAtaH)

 
Apte Hindi
Hindi
अवदातः
पुं*
- -
श्वेत या पीला रंग
E Bharati Sampat
Sanskrit
(पुं) अव + दैप् (शोधने) + क्तः "गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च" (३.४.७२) १. गौरवर्णः २. पीतवर्णः ‘अवदातः सिते पीते’ - अमरः ३. श्वेतवर्णयुक्तः ‘कुन्दैः सविभ्रमवधूहसितावदातैः’ - ऋतुसंहारः ४. पीतवर्णयुक्तः "अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः" - अमरः ५. शुद्धः, शुभ्रः ‘अन्यस्मिन् जन्मनि कृतमवदातम्’ - कादम्बरी ६. निष्कलङ्कः, निर्दुष्टः "स वंशस्यावदातस्य शशाङ्कस्यैव लाञ्छनम्" - किरा० ११.७५ ७. मनोहरः, सुन्दरः "अवदातं तु विमले मनोज्ञे सितपीतयोः" - हेमचन्द्रः
शब्दकल्पद्रुमः
Sanskrit
अवदातः,
पुं,
(अव + दै + क्तः ।) श्वेतवर्णः पीत-वर्णः इत्यमरः