| YouTube Channel

अवचूडः(लः) (avacUDaH(laH))

 
E Bharati Sampat
Sanskrit
अवनता चूडा अग्रं यस्य डस्य लः १. ध्वजाधो बद्धं वस्त्रम् ‘बिभ्राणया बहलयावकपङ्कपिङ्गपिच्छावचूडमनुमाधवधामजग्मुः’ - माघ० - ५.१३ २. ध्वजस्य अधः लभ्यमानाः चामरादयः ‘अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः’ - माघः - ३.५