| YouTube Channel

अवकीर्णः (avakIrNaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + कॄ (विक्षेपे) + क्तः ‘निष्ठा’ (३.२.१०२) १. व्याप्तः, विस्तृतः, आवृतः "किमपैति रजेभिरौर्वरैः अवकीर्णस्य मणेर्महार्घता" - माघ० १६.२७ २. विकीर्णः "चतुष्कपुष्पप्रकारावकीर्णः" - कुमार. ३. चूर्णितः, ध्वस्तः, नाशितः भञ्जितः ४. उल्लङ्घितः, अतिक्रान्तः ‘अवकीर्णनिमित्तं तु ब्रह्महत्याप्रताचरेत्’ - अङ्गि.
Wordnet
Sanskrit
Synonyms:
विकीर्ण, प्रकीर्ण, आकीर्णः, अवकीर्णः, कीर्णः, विक्षिप्त, व्यस्त, सुव्यस्त, उदस्त, प्रसारितः, विधूतः, असंहत
adjective
इतस्ततः क्षिप्तः।
"खगाः भूम्याम् विकीर्णान् अन्नकणान् अवचिन्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अवकीर्णः, त्रि, (अव + कॄ + क्त ।) अवचूर्णितः ।तत्पर्य्यायः अवध्वस्तः इति हेमचन्द्रः
(विस्तृतः प्रसृतः विक्षिप्तः ।“भुक्तानि यौवनसुखानि यशोऽवकीर्णेराज्ये स्थितं स्थिरधिया चरितं तपोऽपि” ।इति नागानन्दे उल्लङ्घितः अतिक्रान्तः ।)