| YouTube Channel

अल्पं (alpaM)

 
Hindi
Hindi
कुछ, थोड़ा अपर्याप्त,
शब्दकल्पद्रुमः
Sanskrit
अल्पं, त्रि, (अल् + प् ।) किञ्चित् तत्पर्य्यायः ईषत्२ मनाक् स्तोकं ।(“अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः” ।इति मनुः ।) खुल्लकं श्लक्ष्णं दभ्रं कृशं ८तनुः तनूः १० त्रुटिः ११ त्रुटी १२ मात्रा १३लवः १४ लेशः १५ कणः १६ कणी १७ कणिका१८ अणुः १९ सूक्ष्मं २० इत्यमरः
क्षुल्लं २१क्षुल्लकं २२ खुल्लं २३ कणा २४ इति शब्दरत्नावली ।(अतिसामान्यः ।“अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्” ।इति रघुवंशे संक्षिप्तं अदीर्घं ।“अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः” ।इति पञ्चतन्त्रम् ।)