| YouTube Channel

अलौकिकः (alaukikaH)

 
E Bharati Sampat
Sanskrit
(वि) लौकिकः लोके विदितः। १.लोके अविदितः, लोकातीतः। ‘अलौकिकत्वादमरः स्वकोशे यानि नामानि समुल्लिल्रेख’ त्रिका०१.२। २.लौकिकप्रत्यक्षाविषयः, अमानुषिकः। ‘उपसंहर विश्वात्मन्नदो रूपमलौकिकम्’ भाग०।
शब्दकल्पद्रुमः
Sanskrit
अलौकिकः, त्रि, (लोके विदितः, लोक + ठक्ततोनञ्समासः ।) लौकिकप्रत्यक्षाविषयः अमा, मुषिकः लोकातीतः यथा, --“अलौकिकत्वादमरः स्वकोषेन यानि नामानि समुल्लिलेख ।विलोक्य तैरप्यधुना प्रचार-मयं प्रयत्नः पुरुषोत्तमस्य”
इति त्रिकाण्डशेषद्वितीयश्लोकः
(“उपसंहर विश्वात्मन्नदोरूपमलौकिकम्” ।इति भागवतपुराणम् ।)