| YouTube Channel

अली (alI)

E Bharati Sampat
Sanskrit
(पुं) (अलिन्) अलं वृश्चिकपुच्छस्थकण्टकम् इव अस्य अस्ति अल+इनिः। ‘अत इनि०’ ५.२.११५। १.भ्रमरः, मधुपः। ‘मधुलिण्मधुपालिनः’ अमरः। ‘मलिनिमाऽलिनि माधवयोषिताम्’ माघः६.४। २.अलं दष्टुं सामर्थ्यम् अस्य अस्ति अल+इनिः| ‘अत इनि०’ वृश्चिकः। ‘वृश्चिके त्वाल्यलिद्रूणाः’ वैज०। (स्त्री) अलिनी अलिन्+ङीप् | ‘ऋन्नेभ्यो ङीप्’ ४.१.५। ३.भ्रमरसमूहः। ‘अरमतालिनी शिलीन्ध्रे’ माघः६.७२।

Wordnet
Sanskrit
Synonyms:
वृश्चिकः, अलिः, आलिः, द्रोणः, वृश्चनः, द्रुणः, पृदाकुः, अरूणः, अली
noun
कीटविशेषः, विषधरः श्रूककीटः।
सः वृश्चिकेन दष्टः।/"दहत्यग्निरिवादौ भीनत्तीवोर्ध्वमाशु वृश्चिकस्य विषं याति पश्चाद्दंशो अवतिष्ठते"
Synonyms:
भ्रमरः, द्विरेफः, मधुव्रतः, मधुकरः, मधुलिट्, मधुपः, अलिः, अली, पुष्पलिट्, भृङ्गः, षट्पदः, कलालापकः, शिलीमुखः, पुष्पन्धयः, मधुकृत्, द्विपः, भसरः, चञ्चरिकः, सुकाण्डी, मधुलोलुपः, मधुमारकः, इन्दिन्दिरः, मधुपरः, लम्बः, पुष्पकीटः, मधुसूदनः, भृङ्गराजः, मधुलेही, रेणुवासः, कामुकः, कलिङ्गपक्षी, मार्कवः, भृङ्गरजः, अङ्गार्कः, भृङ्गारः
noun
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
"भ्रमराणां कदम्बः प्रियः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अली, [न्]
पुं,
(अलं वृश्चिकपुच्छस्थकण्टकं विद्य-तेऽस्य इनि ।) भ्रमरः ।(“मलिनिमालिनि माधवयोषिताम्” ।इति माघः ।) वृश्चिकः इति मेदिनी