| YouTube Channel

अलावुः (alAvuH)

 
शब्दकल्पद्रुमः
Sanskrit
अलावुः,
पुं,
स्त्री,
(न लम्बते, + लवि ऊर्णित् नलो-पश्च वृद्धिः ।) लताविशेषः तत्फलञ्च लाउ इतिख्याता तत्पर्य्यायः तुम्बः तुम्बकः तुम्बा ४तुम्बी पिण्डफला महाफला आलावुः ८एलावुः लावुः १० लावुका ११ इत्यमरःतट्टीका
तुम्बिका १२ तुम्बिः १३ अलावुः १४ ।इति शब्दरत्नावली
अस्या गुणाः ।“अलावुः कथिता तुम्बी द्विधा दीर्घा वर्त्तुलामिष्टं तुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु
वृष्यं रुचिकरं प्रोक्तं धातुपुष्टिविवर्द्धनं” ।इति भावप्रकाशः
भेदकत्वं कफकारित्वं गुरु-पाकित्वं हिमत्वं पित्तनाशित्वञ्च तन्नाडी-गुणाः गुरुत्वं मधुरत्वं
मलभेदकत्वं वात-श्लेष्मकारित्वं रूक्षत्वं शीतलत्वं पित्त-नाशित्वञ्च इति राजवल्लभः
(“वर्च्चोभेदीन्यलावूनि रूक्षशीतगुरूणि च” ।इति चरकश्च ।“अलावुर्भिन्नविट्का तु रूक्षागुर्व्यतिशीतलां” ।इति सुश्रुतः
)