| YouTube Channel

अलसकः (alasakaH)

 
Apte Hindi
Hindi
अलसकः
पुं*
- अलस + कन्
"अफारा, पेट का एक रोग "
E Bharati Sampat
Sanskrit
(पुं) लस्यति अनेन लस(श्लेषणे))+वुन्(करणे) १.उदररोगभेदः। ‘प्रयाति नोर्ध्वं नाधस्तात् आहारो पच्यते आमाशयोऽलसीभूतस्तेन सोऽलसकः स्मृतः’ भावप्र०। (वि) लसति व्याप्रियते २. अलस+कन्(स्वार्थे) अकर्मण्यः, क्रियाशून्यः।
(पुं) लस्यति अनेन लस(श्लेषणे))+वुन्(करणे) १.उदररोगभेदः। ‘प्रयाति नोर्ध्वं नाधस्तात् आहारो पच्यते आमाशयोऽलसीभूतस्तेन सोऽलसकः स्मृतः’ भावप्र०। (वि) लसति व्याप्रियते २. अलस+कन्(स्वार्थे) अकर्मण्यः, क्रियाशून्यः।
शब्दकल्पद्रुमः
Sanskrit
अलसकः,
पुं,
(न लस्यति अनेन, लस + करणे वुन् ।)उदररोगविशेषः इति माधवकरः
तस्य रूपं“कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति ।निरुद्धो मारुतश्चैव कुक्षावुपरि धावति
वातवर्च्चोनिरोधाश्च यस्यात्यर्थं भवेदपि ।तस्यालसकमाचष्टे तृष्णोद्गारौ तु यस्य च”
तन्त्रान्तरे ।“प्रयाति नोर्द्ध्वं नाधस्तादाहारो पच्यते ।आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः”
अस्य लक्षणं चिकित्सा अजीर्णशब्दे द्रष्टव्या
(अलसकमुपदेक्ष्यामः दुर्ब्बलस्याल्पाग्नेर्बहुश्लेष्मणोवातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्ले-ष्मणा विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्नवहिर्मुखी भवति ततश्छर्द्यतीसारवर्ज्यान्याम-प्रदोषलिङ्गान्यभिदर्शयति अतिमात्राणि अति-मात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्य्यगा-गच्छन्तः कदाचित् केवलमेवास्य शरीरं दण्डवत्स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते ।विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरेव दोष-मामविषमित्याचक्षते भिषजो विषसदृशलिङ्ग-त्वात् तत्परमसाध्यमाशुकारित्वात् विरुद्धोप-क्रमत्वाच्चेति तत्र साध्यमामं प्रदुष्टमलसीभूत-मुल्लेखयेत् पाययित्वा सलवणमुष्णवारि ततःस्वेदनवर्त्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम् ।इति चरकः
)