| YouTube Channel

अर्य्यमा (aryyamA)

 
शब्दकल्पद्रुमः
Sanskrit
अर्य्यमा, [न्]
पुं,
(अर्य्यं श्रेष्ठं मिमीते, मा +कनिन् ।) सूर्य्यः ।(“प्रोषितार्य्यमणं मेरोरन्धकारस्तटीमिव” ।इति माघः ।“सूर्य्योऽर्य्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः”
इति महाभारति कश्यपात् दक्षकन्यया दित्याजातो द्वादशादित्यमध्ये परिगणितः ख्यात आ-दित्यः, यदुक्तं हरिवंशे, --“मारीचात् कश्यपाज्जातास्ते दित्या दक्षकन्यया ।तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेव
अर्य्यमा चैव धाता त्वष्टा पूषा भारत !
विवस्वान् सविता चैव मित्रो वरुण एव ।अंशोभगश्चातितेजा आदित्या द्वादश स्मृताः”
)अर्कवृक्षः इत्यमरः
पितृदेवविशेषः इतिमेदिनी