| YouTube Channel

अर्द्धयाम (arddhayAma)

 
शब्दसागरः
English
अर्द्धयाम
m.
(-मः) Half a watch, an hour and a half.
E.
अर्द्ध, and याम a
watch, also अर्द्धयामक.
Yates
English
अर्द्ध-याम (मः) 1.
m.
Half a watch.
Wilson
English
अर्द्धयाम
m.
(-मः) Half a watch, an hour and a half.
E.
अर्द्ध, and याम a watch, also अर्द्धयामक.
वाचस्पत्यम्
Sanskrit
अर्द्धयाम
पु०
अर्द्धं यामस्य प्रहरस्य दिनरात्रयोः अष्टधाविभक्ते काले यावद्दिनमानं रात्रिमानं वा तस्याष्टधावि-भागे यः कालस्तस्मिन् तस्यैव वारवेलाकालवेलासंज्ञातस्य वारविशेषेषु वर्ज्यता ज्योतिषोक्ता “कृतमुनियमशरमङ्गलर्त्तुभास्करादियामार्द्धे प्रभवति वारवेला नशुभा शुभकार्य्वकरणाय” ज्यो० त० तथाच रवौ चतु-र्थोऽर्द्धयामः वारवेला एवं चन्द्रे सप्तमः कुजे द्वितीयः, बुधे पञ्चमः, गुरौ अष्टमः, भृगौ तृतीयः, शनौ षष्ठःवारवेला “कालस्य वेला रवितः शराक्षिकालानलागा-म्बुघयो गजेन्दू दिने, निशायामृतुवेदनेत्रनगेषुरामाविधुदन्तिनौ च” ज्यो० त० यथा दिने रवौ पञ्चमःकालवेला एवं चन्द्रे द्वितीयः, कुजे षष्ठः, बुधे तृतीयः, ।गुरौ सप्तमः, भृगौ चतुर्थः, शनौ अष्टमः आद्यश्च
रात्रौरवौ षष्ठः कालवेला एवं चन्द्रे चतुर्थः कुजे द्वितीयः ।बुधे सप्तमः, गुरौ पञ्चमः भृगौ तृतीयः, शनौ आद्यःअष्टमश्च कालवेला
एवं दिने वारवेलाकालवेलाद्वयसमा-वेशेन द्वयीर्वर्ज्ज्यता यथोक्तं “रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा कुजे षष्ठं द्वितीयञ्चबुधे वाणतृतीयकम् गुरौसप्ताष्टकञ्चैव त्रिचत्वारि भार्गवे शनावाद्यं षष्ठञ्चअष्टमं परिवर्जयेत्”
एवञ्च रात्रौ वारवेला किन्तुकालवेलैव तद्दोषोऽप्युक्तः “यात्रायां मरणं काले (काल-येलायाम्) वैधव्यं पाणिपीडने व्रते ब्रह्मबधः प्रोक्तःसर्व्वं कर्म्म ततस्तजेत्” ज्यो० त० दिनविशेषे तदीशविशे-षोऽपि ज्यो० त० उक्तः “वारेशादर्द्धयामेषु रात्र्यह्नोःपञ्च षट् क्रमात् अधिपाःस्युर्ग्रहास्तत्र यथार्काहे भवन्तिहि रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि रविशुक्रज्ञ-रात्रीशशनीज्यकुजभास्कराः दिने तूह्याः परेष्येवम्”अयमर्थः यस्मिन् दियसे यो वारेशः सएव प्रथमयामार्द्धा-धिपः ततो द्वितीयेशस्तु रात्रौ वारेशापेक्षया पञ्चमः, पुनस्तदपेक्षया पञ्चमस्तृतीयेश एवं व्रमेण ज्ञेयः दिनेतु वारेश एव आद्याधिपः द्वितीयेशस्तु वारेशापेक्षयाषष्ठस्तदपेक्षया पुन षष्ठस्तृतीयेश इत्येवंक्रमेण ज्ञेयः
एतच्च पताकीवेधे पापस्वामिकस्य रिष्टसूचकताविवेचना-र्थम् अन्यत्र शुभकर्म्मसु वर्जनार्थञ्च