| YouTube Channel

अर्दित (ardita)

 
शब्दसागरः
English
अर्दित
mfn.
(-तः-ता-तं)
1. Asked, requested, begged.
2. Killed, injured.
3. Pained, afflicted.
4. Gone.
n.
(-तं) A disease, Hemiplegin,
paralysis of the muscles on one side of the face and neck.
E.
अर्द to
go, to ask, &c. affix क्त, and इट् inserted.
Yates
English
अर्दित (तः-ता-तं)
a. Asked
injured.
n.
(तं) A disease, hemiplegia.
Spoken Sanskrit
English
अर्दित - ardita -
adj.
- asked
अर्दित - ardita -
adj.
- destroyed
अर्दित - ardita -
adj.
- injured
अर्दित - ardita -
adj.
- requested
अर्दित - ardita -
adj.
- begged
अर्दित - ardita -
adj.
- tormented
अर्दित - ardita -
adj.
- wounded
अर्दित - ardita -
adj.
- pained
अर्दित - ardita -
adj.
- killed
अर्दित - ardita -
n.
- disease
अर्दित - ardita - ppp. - afflicted
अर्दित ardita
adj.
begged
उपयाचित upayAcita
adj.
begged
भिक्षित bhikSita
adj.
begged
याचित yAcita
adj.
begged
सम्प्रार्थित samprArthita
adj.
begged
वत vata
adj.
begged
भिक्षाहार bhikSAhAra
m.
begged food
भैक्ष bhaikSa
n.
begged food
भैक्षान्न bhaikSAnna
n.
begged food
याचनीय yAcanIya
adj.
to be begged
भिक्षाशिन् bhikSAzin
adj.
eating begged food
भैक्षाशिन् bhaikSAzin
adj.
eating begged food
प्रार्थनीय prArthanIya
adj.
to be asked or begged
भिक्षितव्य bhikSitavya
adj.
to be begged or asked for
शूद्रभिक्षित zUdrabhikSita
adj.
begged or received as alms from a zUdra
Wilson
English
अर्दित
mfn.
(-तः-ता-तं)
1 Asked, requested, begged.
2 Killed, injured.
3 Pained, afflicted.
4 Gone.
n.
(-तं) A disease, Hemiplegia, paralysis of the muscles on one
side of the face and neck.
E.
अर्द to go, to ask, &c. affix, क्त and इट् inserted.
Apte
English
अर्दित [ardita], p. p. [अर्द्-क्त] Tormented, afflicted
begged
&c.
-तम् A disease, spasm of the jaw-bones, tetanus or hemiflegia (paralysis of the muscles on one side of the face and neck).
Apte 1890
English
अर्दित p. p. [अर्द्-क्त] Tormented, afflicted
begged &c.
तं A disease, spasm of the jaw-bones, tetanus or hemiplegia (paralysis of the muscles on one side of the face and neck).
Monier Williams Cologne
English
अर्दित
mfn.
asked, requested, begged,
L.
injured, pained, afflicted, tormented, wounded,
MBh.
&c.
killed, destroyed, ib.
अर्दित
n.
N.
of a disease (spasm of the jaw-bones, trismus, tetanus
or hemiplegia i.e. paralysis of the muscles on one side of the face and neck),
Suśr.
Monier Williams 1872
English
अर्दित, अस्, आ, अम्, gone
asked, requested, beg-
ged
killed, injured, pained, afflicted
(अम्), n. a
disease, spasm of the jaw-bones
trismus, tetanus
or hemiplegia, i. e. paralysis of the muscles on one
side of the face and neck.
Macdonell
English
अर्दित ard-ita, pp. (√ ṛd) afflicted.
Shabdartha Kaustubha
Kannada
अर्दित
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧವಾದ ವಾತರೋಗ
अर्दित
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹಿಂಸಿಸಲ್ಪಟ್ಟ /ಪೀಡಿಸಲ್ಪಟ್ಟ
निष्पत्तिः - > अर्द (हिंसायाम्) + णिच् - "क्तः" (३-२-१०२)
अर्दित
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಯಾಚಿಸಲ್ಪಟ್ಟ
निष्पत्तिः - > अर्द (याचने) - "क्तः" (३-२-१०२)
विस्तारः - > "अर्दितं याचितेऽपि स्यात् वातव्याधौ हिंसिते" - मेदि०
Kridanta Forms
Sanskrit
अर्द् (अ꣡र्दँ꣡ गतौ याचने - भ्वादिः - सेट्)
ल्युट् = अर्दनम्
अनीयर् = अर्दनीयः - अर्दनीया
ण्वुल् = अर्दकः - अर्दिका
तुमुँन् = अर्दितुम्
तव्य = अर्दितव्यः - अर्दितव्या
तृच् = अर्दिता - अर्दित्री
क्त्वा = अर्दित्वा
ल्यप् = प्रार्द्य
क्तवतुँ = अर्दितवान् - अर्दितवती
क्त = अर्दितः - अर्दिता
शतृँ = अर्दन् - अर्दन्ती
अर्द् (अ꣡र्दँ꣡ हिंसायाम् - चुरादिः - सेट्)
ल्युट् = अर्दनम्
अनीयर् = अर्दनीयः - अर्दनीया
ण्वुल् = अर्दकः - अर्दिका
तुमुँन् = अर्दयितुम् / अर्दितुम्
तव्य = अर्दयितव्यः / अर्दितव्यः - अर्दयितव्या / अर्दितव्या
तृच् = अर्दयिता / अर्दिता - अर्दयित्री / अर्दित्री
क्त्वा = अर्दयित्वा / अर्दित्वा
ल्यप् = प्रार्द्य
क्तवतुँ = अर्दितवान् - अर्दितवती
क्त = अर्दितः - अर्दिता
शतृँ = अर्दयन् / अर्दन् - अर्दयन्ती / अर्दन्ती
शानच् = अर्दयमानः / अर्दमानः - अर्दयमाना / अर्दमाना
Wordnet
Sanskrit
Synonyms:
पीडित, निपीडित, व्यथित, विहत, दूषित, क्षत, परिक्षत, विक्षत, हिंसित, विहिंसित, अपकृत, अर्दित
adjective
कृतापकारः।
"रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।"
Sanskrit Tibetan
Tibetan
nyen pa
१) अर्दित २) कृत ३= पीडा ४) व्यथा ५)
शब्दकल्पद्रुमः
Sanskrit
अर्दितं,
क्ली,
(अर्द + क्तः ।) वायुव्याधिविशेषः तस्य(निदानपूर्व्वरूपसम्प्राप्तिपूर्व्वकं) लक्षणमाह (सुश्रुतः) ।“उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि ।हसतो जृम्भतो भाराद्विषमाच्छयनादपि
शिरोनासौष्ठचिवुकललाटेक्षणसन्धिजः ।अर्द्दयित्वानिलो वक्त्रमर्द्दितं जनयत्यतः
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम्
ग्रीवाचिवुकदन्तानां तस्मिन् पार्श्वे तु वेदना
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलं ।वायरूर्द्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
)तमर्द्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः”
तस्यासाध्यलक्षणञ्चाह
“क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ।न सिध्यत्यर्द्दितं वाढं त्रिवर्षं वेपनस्य
*
भावप्रकाशेऽप्येयं व्याख्या
व्याहरतः वदतः ।कठिनानि पूगफलादीनि विषमाच्छयनासना-दिति पाठान्तरे विषमाच्छयनासनात् ग्रीवादि-वैपरीत्येन शयनादासनाच्च अर्द्दयति पीडयति ।जनयेत्तत इति पाठान्तरे ततस्तदनन्तरं अर्द्दितंजनयेत् अर्द्दिते जाते किं स्यात्तदाह वक्री-भवतीत्यादि अपवर्त्तते वक्रीभवति चलतिकम्पते वाक्सङ्गः वाङ्निरोधः नेत्रादीना-मित्यादिशब्देन भ्रूगण्डनासिकादीनां ग्रहणं ।वैकृतं वेदनास्फुरणवक्रत्वादि ग्रीवेत्यादि यस्मिन्पार्श्वे अर्द्दितं तस्मिन् पार्श्वे ग्रीवादीनां वेदना
अनिमिषाक्षस्य निमेषासमर्थचक्षुषः प्रसक्तंप्रकर्षेण लग्नं अव्यक्तञ्च भाषितुं शीलं यस्य तस्यअर्द्दितं सिध्यति त्रिवर्षं अतीतवर्षत्रयं अथवात्रयाणां चक्षुर्नासामुखानां वर्षः स्रावो यत्र तत् ।वेपनस्य कम्पनशीलस्य वाढमतिशयेन नसिध्यति इत्यन्वयः गाढमित्यर्थे एवार्थः
*
(चरकश्चाह ।“अतिवृद्धः शरीरार्द्धमेकं वायुः प्रपद्यते ।यदा तदोपशोष्यासृक् बाहुं पादञ्च जानु
तस्मिन् सङ्कोचयत्यर्द्धे मुखं जिह्मं करोति ।वक्रीकरोति नासाभ्रुललाटाक्षिहनुन्तथा
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकं ।स्तब्धं नेत्रं कथयतः क्षरथुश्च निगृह्यते
दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्यवाक् ।दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् ।अर्द्धे तस्मिन् मुखार्द्धे वा केवले स्यात्तदर्द्दितं”
*
वाभटस्वाह ।“शिर सा भारहरणादतिहार्यप्रभाषणात् ।उत्त्रासवक्त्रक्षरथुस्वरकार्मुककर्षणात्
विषमादुपधानाच्च कठिनानाञ्च चर्ब्बणात् ।वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्द्ध्वमास्थितः
वक्रीकरोति वक्त्रार्द्धमूर्द्ध्वं हसितमीक्षितं ।ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गस्तब्धनेत्रता
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षरग्रहः ।गन्धाज्ञानं स्मृतेर्म्मोहस्त्रासः सुप्तस्य जायते
निष्ठीवः पार्श्वतोयायादेकस्याक्ष्णोनिमीलनं ।जत्रोरुर्द्ध्वं रुजा तीव्रा शरीरार्द्धेऽधरेपि वा
तमाहुरर्दितं केचिदेकायामथ चापरे”
*
हारीतसंहितायामप्युक्तं ।“सन्तापदाहशोषाश्च मूर्च्छापित्तान्वितोमरुत् ।शैत्यं शोथोऽरुचिर्जाड्यं वातश्लेष्मसमन्वितं
यो द्वन्द्वजाश्रितो धीरास्तं साध्यं मारुतं विदुः ।केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः
वक्त्रं भवति वक्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।वैकृत्यं नयनानाञ्च विसंज्ञो वेदनातुरः
ग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ।तमर्द्दितमिति प्राहुर्वातव्याधिविचक्षणाः
लालास्रावोऽथ शोषश्च हनुग्राहो विरस्यता ।दन्तशूलं भवेद्यस्य वातेनार्द्दितमेव
पीतार्द्धं सज्वरं तृष्णा पित्तजे मोह एवच ।शोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्द्दिते”
*
)“वातात्पित्तात्कफाच्च स्यात् त्रिविधं तत्समासतः ।लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः
ओष्ठयोः श्वयथुः शूलश्चार्दिते वातजे भवेत् ।पीतमास्यं ज्वरस्तृष्णा पित्तजे मोहधूपने
गण्डे शिरसि मन्यायां शोथः स्तम्भः कफात्मके”
*
(अथ तस्य चिकित्सामाह सुश्रुतः
अर्द्दितातुरंबलवन्तमुपकरणवन्तञ्च वातव्याधिविधानेनोपच-रेद्वैशेषिकैश्च मस्तिष्कशिरोवस्तिनस्यधूपोपनाह-स्नेहनाडीस्वेदादिभिः ततः सतृणं महापञ्चमूलंकाकोल्यादिं विदारिगन्धादि सौदकानूपमांसं त-थैवौदकन्दांश्च संहृत्य द्विगुणोदके क्षीरद्रीणे नि-क्वाथ्य पादावशिष्टमवतार्य्य परिस्राव्य तैलप्रस्थे-नोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानु-गतमवतार्य्य शीतीभूतमभिमन्थीयात्तत्र यः स्नेहःउत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं वि-पचेदेतत् क्षीरतैलमर्द्दितातुराणां पानाभ्यङ्गादि-धूपयोज्यं
तैलहीनं वा क्षीरसर्पिरक्षितर्पण-मिति
*
चरकस्तु
“अर्द्दिते नावनं मूर्द्ध्नि तैलं तर्पणमेव
नाडीस्वेदोपनाहाश्च आनूपपिशितैर्हिताः”
*
वाभटश्च
“अर्द्दिते नावनं मूर्द्ध्नि तैलं श्रोत्राक्षितर्पणं ।सशोफे वमनं दाहरागयुक्ते शिराव्यधः”
*
हारीतसंहितायां ।“अर्द्धं पलं रसोनञ्च हिङ्गुसैन्धवजीरकैः ।सौवर्च्चलेन संयुक्तं तथैव कटुकत्रिकं
घृतेन संयुतं भक्षेन्मासमेकं दिने दिने ।निहन्ति वातरोगञ्च अर्द्दितञ्च प्रतानकं”
*
चक्रपाणिसंग्रहे
“रसोनं नवनीतेन प्राश्य हन्त्यर्दितं द्रुतं ।अर्द्दिते नवनीतेन खादेन्माषण्डरीं नरः
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ।स्नैहाभ्यङ्गशिरोवस्तिपाननस्यपरायणः ।अर्द्दितं जयेत् सर्पिः पिबेदौत्तरभक्तिकं”
*
भावप्रकाशेऽप्येतदतिरिक्तं यत्संगृहीतं तच्चैतत्
)“स्नेहपानानि नस्यञ्च भोज्यान्यनिलहृन्ति ।उपनाहाश्च शस्यन्ते स्वेदनं वस्तयोऽर्द्दिते”
वस्तिरत्रशिरोवस्तिरेव ।“दशमूलीकषायेण मातुलुङ्गरसेन वा ।बलया पञ्चमूल्या वा क्षीरं वातात्मके हितं
पिष्टं माषकृतं जग्ध्वा नवनीतेन सोऽर्द्दिती ।क्षीरं मांसरसैर्भुक्त्वा दशमूलीरसं पिबेत्
अर्दिते पित्तजे शीतान् स्नेहांश्चैव विनिर्द्दिशेत् ।घृतवस्तिप्रसेकञ्च क्षीरसेकं तथैव
जिह्मीभूताननो मूको दाहवान् योऽर्द्दिती भवेत् ।कुर्य्यात् प्रतिक्रियां तस्य वातपित्तविनाशिनीं
श्लेष्मभागे क्षयं नीते वृंहणैः समुपाचरेत् ।अर्दिते शोथसंयुक्ते वमनञ्च प्रशस्यते
रसोनकल्कं तिलतैलमिश्रंखादेन्नरो योऽर्द्दितरोगयुक्तः ।तस्यार्द्दितं नाशमुपैति शीघ्रंवृन्दं घनानामिव वायुवेगात्”
इति
अर्द्दितः, त्रि, (अर्द्द + क्तः ।) याचितः इत्यमरः
हिंसितः इति मेदिनी
गतः पीडितः इतिशब्दरत्नावली
वाचस्पत्यम्
Sanskrit
अर्द्दित
त्रि०
अर्द्द--क्त पीडिते, गते, याचिते ।४ रोगभेदेन० “अर्दयित्वाऽनिलोवक्त्रमर्दितं जनयत्यतः ।वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते शिरश्चलति वाक्-सङ्गो नेत्रादीनाञ्च वैकृतम् ग्रीवाचिवुकदन्तानांतस्मिन् पार्श्वे तु वेदना यस्याग्रजो रोमहर्षो वेपथुर्नेत्र-माविलम् वायुरूर्द्धं त्वचि स्वापस्तोदोमन्याहनुग्रहः ।तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः सिध्यत्यर्दितं वाढंत्रिवर्षं वेपनस्य च” इति सुश्रु० “क्षयकासश्वास व्रणार्शोऽर्द्दितापहम्” “हनुमोक्षमधीमन्थमर्दितञ्च सुदा-रुणम्” इति सुश्रु०!
Burnouf
French
अर्दित अर्दित pp. de अर्द्। -- S.
n.
paralysie,
hémiplégie de la face et du cou.