| YouTube Channel

अर्थ्यः (arthyaH)

 
E Bharati Sampat
Sanskrit
(वि) अर्थात् प्रयोजनात् अनपेतः अर्थ + यत् ‘धर्मपथ्यर्थन्यायादनपेते’ (४.४.९२) १. विद्वान्, पण्डितः २. अर्थसहितः ‘वागीशं वाग्भिरर्थ्याभिः प्राणिपत्योपतस्थिरे’ (कुमार. २.३) ३. योग्यः ४. याचयितुं योग्यः ५. अपेक्षार्हः (न) शिलाजतु ‘आत्मवाननपेतोऽर्थात् अर्थ्यौ’ (अमरः) अर्थ्यं शिलाजतुन्यर्थ्यो बुधे न्याय्ये वाच्यवत्’ (मेदिनी )
(वि) अर्थात् प्रयोजनात् अनपेतः। अर्थ+यत् ‘धर्मपथ्यर्थन्यायादनपेते’ ४.४.९२। १.विद्वान्, पण्डितः। २.अर्थसहितः। ‘वागीशं वाग्भिरर्थ्याभिः प्राणिपत्योपतस्थिरे’ कुमा०२.३। ३.योग्यः। ४.याचनार्हः। ५.अपेक्षार्हः। (न) ६.शिलाजतु ‘अर्थ्यं शिलाजतुन्यर्थ्यो बुधे न्याय्ये वाच्यवत्’ मेदिनी
शब्दकल्पद्रुमः
Sanskrit
अर्थ्यः, त्रि, (अर्थे साधुः, तत्साधुरिति यत्, अर्था-दनपेतः, धर्म्मपथ्यर्थन्यायादनपेत इति यत्प्रत्ययः ।)पण्डितः धनवान् न्याय्यः इत्यमरभरतौ ।याच्यः याचनार्थकार्थधातोः कर्म्मणि यः
(अर्थयुक्तः उदरार्थयुक्तः ।“अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः” ।इति रघुवंशे ।“वागीशं वाम्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे” ।इति कुमारसम्भवे ।)