अर्थवाद (arthavAda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiअर्थवादः
अर्थः-वादः -
किसी उद्देश्य की घोषणा
अर्थवादः
अर्थः-वादः -
"निश्चयात्मक घोषणा, घोषणाविषयक प्रकथन"
अर्थवादः
अर्थः-वादः -
"प्रशंसा, स्तुति"
Shabdartha Kaustubha
Kannadaअर्थवाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ತುತಿವಾಕ್ಯ /ಹೊಗಳಿಕೆಯ ಮಾತು
अर्थवाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಿಂದಾವಚನ
व्युत्पत्तिः - > अर्थस्य प्रयोजनस्य वादः
अर्थवाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರಂಥದ ತಾತ್ಪರ್ಯವನ್ನು ನಿರ್ಣಯಿಸುವ ೬ ಉಪಕರಣಗಳಲ್ಲೊಂದು
प्रयोगाः - > "उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये ॥"
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritपरुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।
उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥
श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
परुष (क्ली), निष्ठुर (क्ली), रूक्ष (क्ली), विक्रुष्ट (क्ली), घोषणा (स्त्री), उच्चैर्घुष्ट (क्ली), वर्णना (स्त्री), ईडा (स्त्री), स्तव (पुं), स्तोत्र (क्ली), स्तुति (स्त्री), नुति (स्त्री), श्लाघा (स्त्री), प्रशंसा (स्त्री), अर्थवाद (पुं), विकत्थन (क्ली)
अभिधानरत्नमाला
Sanskritअर्थवाद
अर्थवाद, प्रशंसा, स्तोत्र, ईडा, स्तुति, नुति, विकत्थन, स्तव, श्लाघा, वर्णना
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।
विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
verse 1.1.1.145
page 0018
वैजयन्तीकोषः
SanskritWord: अर्थवादः
Root: अर्थवाद
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Speaking for gain
Shloka(s):
2|4|37|1 ► अर्थवादः परार्थोक्तिः प्रश्नः पर्यनुयोगवत्। (अन्तरिक्षकाण्डः/शब्दाध्यायः)
Synonym(s):
➠ 2|4|37|1 ⇢ अर्थवादः (अर्थवाद) (पुं) ⇒ Speaking for gain ⇒
Related word(s):
शब्दकल्पद्रुमः
Sanskritअर्थवादः, (अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दा-र्थस्य वा वादः, वद् + करणे घञ् ।) स्तुतिः ।प्रशंसा । इति हेमचन्द्रः ॥
स तु त्रिविधः । गुण-वादः १ अनुवादः २ भूतार्थवादः ३ । यथा, --“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥
इति भट्टः ॥
तत्त्वसम्वोधिनीमते सप्तविधः । स्तुत्य-र्थवादः १ फलार्थवादः २ सिद्धार्थवादः ३ नि-न्दार्थवादः ४ परकृतिः ५ पुराकल्पः ६ मन्त्रः ७ ।एषामुदाहरणानि श्रुत्युक्तत्वात् न लिखितानि ॥
विध्यसमभिव्याहृतवाक्यं । यथा । “अर्थवादश्चविध्यसमभिव्याहृतवाक्यरूपः” सोऽपि त्रिविधः ।गुणवादानुवादभूतार्थवादभेदात् । यथा --“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥
इति ॥
अयमर्थः । विरोधे विशेष्यविशेषणयोःसामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्ग-कथनरूपत्वात् । यथा “यजमान स्रस्तरः” इति ।अत्र स्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वय-बाधात् यजमानस्य कुशमुष्टिधारणरूपार्थवाद-रूपत्वात् गुणवादः । अवधारिते प्रमाणान्तर-सिद्धेऽर्थे यो वादः । यथा नान्तरीक्षेऽग्निश्चेतव्यःअग्निंर्हिमस्य भेषजं इत्यादि च । अन्तरीक्षेऽग्नि-चयनस्यासम्भवेन तदभावस्य अग्नेर्हिमनाशक-त्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः ।तद्धानौ तयोर्विरोधावधारनयोरभावे भूतार्थ-वादः । यथा इन्द्रो वृत्रहन्नित्यादि । सोऽपिद्विविधः । स्तुत्यर्थवादो निन्दार्थवादश्च । यथा, --“सन्ध्यामुपासते ये च” इत्यादि स्तुत्यर्थवादः ।“स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषुवै पुमान् ॥
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” ।इत्यादि निन्दार्थवादः । इति श्राद्धविवेकटीकायांश्रीकृष्णतर्कालङ्कारः ॥
* ॥
“प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं” ।इति वेदान्तसारः ॥
तद्विवरणं यथा । अथार्थ-वादाधिकरणं । तत्रार्थवादाश्च बहुषु श्रूयन्ते तेकिं प्रमाणं न वेति संशये पूर्व्वपक्षसूत्रं । आम्ना-यस्य प्रवर्त्तकत्वं तदर्थमेव तदवतारादिति । अ-स्यार्थः । आम्नायस्य वेदस्य प्रवर्त्तकत्वं विधेये इतिशेषः । तदर्थं वेदाभिधानात् । तच्च प्रवर्त्तकत्वंकार्य्यताज्ञानद्वारैव तद्विना प्रवृत्त्यभावात् । अतःसिद्धार्थकानां स्तुत्यर्थवादानां कार्य्यतावाच-कपदाभावात् न कार्य्यताधीजनकत्वं । अतो-ऽप्रामाण्यमेव । अतस्तेषामर्थवादानां प्रवर्त्तक-त्वार्थमवश्यं विधिकल्पनं कॢप्तविशेषणत्वं वायुक्तं अतएव सिद्धान्तसूत्रं । विधिना त्वेकवाक्य-त्वात् स्तुत्यर्थेन विधीनां स्युरिति । अस्यार्थः ।अर्थवादानां स्तुतिपरत्वेन विधिना सह एक-वाक्यत्वात् ते अर्थवादाः प्रमाणानि स्युः । तथा चविधेयप्रवृत्तावेव तेषां तात्पर्य्यं तत्रैव प्रामाण्यंयत्परशब्दः स शब्दार्थ इति सिद्धान्तात् न स्वार्थेस्तुत्यादौ तत्र तात्पर्य्यामावात् । तर्हि यन्न टुःखेनसम्भिन्नमित्यादेः स्वत्न्त्रार्थवादानां का गतिरित्य-त्राह भूतार्थानां क्रियार्थेन समाम्नायः । अस्यार्थः ।भूतार्थानां सिद्धार्थानां क्रियार्थेन कार्य्यबोधकेनविधिना इति यावत् । समाम्नायः पाठः कार्य्य-इति शेषः । ततश्च विधिवाक्याकाङ्क्षापूरकत्वेनकार्य्यान्वितबोधकतया तेषां प्रामाण्यं । यथा ।लिखिष्यमाणयूपाहवनीयवाक्यानां यूपाहवनीय-परिचयाय कार्य्यान्वितबोधकत्वेन स्वार्यबोधकत्वेप्रामाण्यं । तथा स्वर्गकामो यजेतेत्यत्र स्वर्गरूप-परिचयाय स्वर्गबोधकत्वेन ।“यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरं ।अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदं” ॥
इत्यादि वाक्यानामपि प्रामाण्यं । अन्यथा यूपा-दिपदार्थापरिचये च तत्तद्विधिवाक्यानां प्रवृत्तिर्नस्यादतो विधिनैकवाक्यत्वात् सिद्धार्थकानामपिप्रामाण्यं । यत्र तु विधिना सह विरोधः तत्रन स्वार्थे प्रामाण्यं । यथा “अहरहः सन्ध्यामुपा-सीत” इत्यादौ ।“सन्ध्यामुपासते ये तु नियतं संशितव्रताः ।विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” ॥
इत्याद्यर्थवादानां ॥
अतो नित्ये कर्म्मणि फलश्रुति-रर्थवादएव सोऽपि रुच्युत्पादनपरः । अतोऽत्रकार्य्यताज्ञानादेरप्रवृत्तिरिति दिक् । इति धर्म-दीपिका ॥
वाचस्पत्यम्
Sanskritअर्थवाद अर्थस्य लक्षणया स्तुत्यर्थस्य, निन्दार्थस्य वा वादःबद--करणे घञ् । १ प्रशंसानीयगुणवाचके, २ निन्द्रनीयदोष-वाचके च शब्दविशेषे । भावे घञि । ३ तत्कथने । अभि-धया गौण्या वा वृत्त्या भूतमर्थं वदन् स्वाध्यायविध्यापादितप्रयोजनवत्त्वलाभाय विधिमाकाङ्क्षनर्थवादः” अर्थवादेन हिर्क्कचिद्विधिशक्तिरवसीदन्ती विध्यर्थे शीघ्रं प्रवर्त्तयितुमुत्तभ्य-ते । सच चतुर्विधः “स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थ-वादः” गी० सूत्रोक्तेः । तत्र स्तुतिः साक्षाद्विध्यर्थस्य प्रशंसा-र्थकं वाक्यं यथा “सर्व्वस्य जिता वै देवाः सर्वमजयन् सर्वस्यव्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयतीत्यादि” ।अनिष्टसाधनताद्वारा विध्यर्थ्यवर्त्तकं वाक्यम् निन्दा । यथा“एष वाव प्रथमोयज्ञानां यज्ज्योतिष्टोमः य एतेनानिष्ट्वाअन्येन यजते स गर्त्ते पततोत्यादि” । पुरुषविशेषनिष्ठतयाकयनं परकृतिः परक्रिया, यथा “वपामेवाग्रेऽभिधारयन्तिअथ पृषदाज्यं तदुह चरकाध्यर्यवः पृषदाज्यमेवाग्रेऽभिघार-यन्त्यग्नेःप्राणाः पृषदाज्यमित्यभिदधतीत्यादि” ऐहिह्यमात्र-चरिततया कीर्त्तनं पुराकल्पः । एवमन्येऽपि अर्थवादा ब्राह्म-णरूपाः सामसंहिताभाष्ये माधवाचार्य्येंण दर्शिताः यथा“हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परकृतिःषुराकल्पोयावधारणकल्पना” इति “तेन ह्यन्नं क्रियत” इतिहेतुः “एतद्दध्नोदधित्वमिति” निर्वचनम् । “अमेध्या बैमाषा” इति निन्दा “वायुर्वैक्षेपिष्ठेति” प्रशंसा” “तद्क्यचि-कित्सन् जुहवानीमाहोषामिति” संशयः “यजमानेन सम्मि-ता औदुम्बरी भवतीति” विधिः “माषानेव मह्यं पचते” इतिपरकृतिः “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः । “याव-तोऽंशान् प्रतिगृह्लीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपेदितिं विशेषावघारणकल्पनेत्युदाहृतं च तत्रैव । लौगा-क्षिणा तु त्रैविध्यमुक्तम् “अर्थवादश्च त्रिविधः गुणवादोऽनु-वादोभूतार्थवादश्चेति तदुक्तम् ॥
“गुणवादीविरोधे स्यादनु-वादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः” ॥
गुणवादश्च “यथा सिंहो माणवक” इत्यादौ माणवकेसिंहाभेदस्य विरोधेन तद्गतदशाभेदोवोध्यते तेन समर्थ-त्वादिरूपं तद्वृत्तिगुणमनुवदति प्रतिपादयतीति गुणवादःअन्ये तु “यजमानः स्रस्तर” इत्यादौ प्रत्यक्षादिभिर-वघारितेऽर्थे तमेवार्थमनुवदतीत्यनुवादः यथा “वह्नि-र्हिमस्य भेषजं, “भूमिरावपनं महत् सूर्य्यस्तापकर”इत्याहुः । तद्धानादेतदुभयार्थकत्वाभावात् तथा चैतदुभय-भिन्नं भूतं सिद्धार्थं वदतीति भूतार्थवादः इति । अयञ्चानेक-विघः क्वचिदुक्तः, स्तुत्यर्थ वादः फलार्थवादः सिद्धार्थवादःनिन्दार्थ वादः परकृतिः पुराकल्पः मन्त्रश्चेति” । तत्र स्तु-त्यर्थ वादो यथा “वायुर्वैक्षेपिष्ठा देवता” इत्यादि ॥
फलार्थ यादोयथा “तरति गृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेते-त्यादिं । “प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तोत्यादि” चयद्यप्येतस्य परकृतावेव पर्य्यसावनं तथापि फलस्य विशेष्यतयाऽनभिधानात्ताद्रूप्येण पृथगुपन्यासः ॥
सिद्धार्थवादो यथा ।“यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ॥
अभिलाषोप-नीतं यत् तत् सुखं स्वःपदास्पदमित्यादि” ॥
निन्दार्थवादोयथा “अन्धन्तमस्ते प्रविशन्तिये के चात्महनोजना” इत्यादि ॥
परकृतिः परकृत्यभिधानं परक्रियोक्तिः । एवञ्च लौगाक्षि-भास्करोक्तस्य” “विरोधेनानुवादः स्यादित्यादि कारिकोक्तस्यत्रैविध्यस्य मध्ये स्तुत्यर्थवादस्यैवावान्तरभेदेन तस्य सप्तविध-त्वमिति भेदः । ३ ग्रन्थतात्पर्य्यावधारणार्थे लिङ्गषट्का-न्तर्गते लिङ्गभेदे च । “उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्ण्णये इतिवे० सा० यथा “उत तमादेशमप्राक्षो” येनाश्रुतं श्रुतम् । इत्या-दिनाऽद्वितीयवस्तुनः प्रशंसनम्” छा० उ० भा० उक्तम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
