| YouTube Channel

अर्ण्णव (arNNava)

 
वाचस्पत्यम्
Sanskrit
अर्ण्णव
पु०
अर्णाँसि सन्त्यस्मिन् अर्णस् + सलोपः समुद्रे ।“यादोरत्नैरिवार्ण्णवः” रघुः “कृष्णार्ण्ण वाभ्यर्णचरैकहंसः”माघः उदकयुक्ते
त्रि०
“ततः समुद्रादर्णवात्” सन्ध्यामन्त्रः“तिरः समुद्रमर्णवम्” ऋ० १, १९, “अर्णवमुदक-युक्तम्” भा० अर्णांसि दातृवेनास्त्यस्य मतुप्सलोपः जलदातरि सूर्य्ये इन्द्रे “आदित्याज्जायतेवृष्टिः” गीतोक्तेः सूर्य्यस्य पर्जन्याघिपत्वाच्च शक्रस्यजलदातृत्वात्तथात्वम् “सभानुरर्ण्णवो नृचक्षाः” ऋ०३, ५१, “शतक्रतुमर्ण्णवं शाकियं नरम्” ३, ३, ५, १, २, अर्ण्णवं पर्ज्जन्यात्मनोदकवन्तम्” भा० सजले ।“अजएकपादनमितुरर्ण्णवम्” ऋ० १०, ६६, ११ “ब्रह्म-लोके, एतादेवताः सृष्टा अस्मिन्महत्यर्ण्णवे” ऐ० ब्रा० ।अस्य समुद्रावाचित्वेन क्षीरार्णवः जलार्णवः लवणार्ण्णवःइत्यादौ आधारतामात्रबोधः