| YouTube Channel

अर्णवः (arNavaH)

 
Apte Hindi
Hindi
अर्णवः
पुं*
- "अर्णांसि सन्ति यस्मिन्-अर्णस्+व, सुलोपः"
" समुद्र, सागर"
E Bharati Sampat
Sanskrit
(पु) अर्णांसि जलानि सन्ति अत्र अर्णस्+वः, सलोपश्च ‘अर्णसो लोपश्च’ वा०५.२.१०९। सागरः, समुद्रः। ‘सरस्वान् सागरोऽर्णवः’ अमरः। ‘यादोरत्नैरिवार्णवः’ रघुः१.१६।
Wordnet
Sanskrit
Synonyms:
अर्णवः
noun
दण्डकछन्दोभेदः।
"अर्णवस्य प्रत्येकस्मिन् चरणे नगणौ नव रगणाः भवन्ति।"
Synonyms:
सागरः, समुद्रः, अर्णवः
noun
सागरवत् निर्मर्यादः निष्पारः च।
"सः करूणायाः सागरः अस्ति।"
Synonyms:
सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः
noun
भूमेः परितः लवणयुक्ता जलराशिः।
"सागरे मौक्तिकानि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अर्णवः,
पुं,
(अर्णांसि जलानि सन्त्यस्मिन्, अर्णसो-लोपश्चेति वः सलोपश्च ।) समुद्रः इत्यमरः
(“अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” ।इति रघुवंशे ।)