| YouTube Channel

अर्घ्यं (arghyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अर्घ्यं, त्रि, (अर्ह्यते पूज्यते, अर्ह + ण्यत्, न्यङ्क्वादी-नाञ्चेति कुत्वं, अर्घमर्हति इति पादार्घाभ्याञ्चेतियत् वा ।) पूजनयोग्यं पूज्यं इति मेदिनी
अर्घ्यार्थं तत्तु पूजार्थदूर्व्वाक्षतचन्दनपुष्पमिश्रित-वारि इत्यमरः
(“अनर्घ्यमर्घ्येण तमद्रिनाथः, स्वर्गौकसामर्च्चितमर्च्चयित्वा” ।इति कुमारसम्भवे ।“अर्घ्यमर्घ्यमितिवादिनं नृपं, सोऽनवेक्ष्य भरताग्रजो यतः” ।इति रघुवंशे ।) अर्घार्थजलम् इति अमरटीकायांभरतः
तत्तु सामान्यविशेषभेदेन द्विविधं ।तत्राद्यस्य क्रमः स्ववामे त्रिकोणवृत्तभूविम्बंविलिख्याधारशक्तिं पूजयित्वा अस्त्रमन्त्रेण पात्रंप्रक्षाल्य मन्त्रेण जलेनापूर्य्याङ्कुशमुद्रया मन्त्रेण, सूर्य्यमण्डलात्तीर्थमावाह्य प्रणवेन गन्धपुष्पाभ्यांसंपूज्य धेनुमुद्रां प्रदर्श्य प्रणवमष्टधा दशधा वाजपेत्
अन्त्यस्य क्रमः स्ववामे त्रिकोणमण्डलंकृत्वा तत्र त्रिपदिकामारोप्य अस्त्रेण शङ्खंप्रक्षाल्य तदुपरि संस्थाप्य मन्त्रेण गन्धपुष्पाक्षत-दूर्व्वादि तत्र निःक्षिप्य विमलजलेन विलोम-मातृकया मूलेन पूरयेत् ततस्त्रिपदिकायांवह्निमण्डलपूजा शङ्खे सूर्य्यमण्डलपूजा जलेसोममण्डलपूजा ततो मन्त्रेणाङ्गुशमुद्रया सूर्य्यम-ण्डलात्तीर्थमावाह्य मन्त्रेण स्वहृदयाद्देवतां तत्रा-वाह्य कूर्च्चमन्त्रेणावगुण्ठ्यास्त्रमन्त्रेण गालिनीमुद्रांप्रदर्श्य मन्त्रेण तज्जलं वीक्ष्य अङ्गमन्त्रैः सकलीकृत्यगन्धपुष्पाभ्यां देवतां संपूज्य तदुपरि मत्स्यमुद्रया-च्छाद्य मूलमन्त्रमष्टधा जप्त्वा धेनुमुद्रां प्रदर्श्या-स्त्रेण संरक्ष्य तस्मात् किञ्चित् जलं प्रोक्षणीपात्रेनिःक्षिपेत् इति तन्त्रसारः
अर्घ्यं,
क्ली,
(अर्घ + यत् ।) जरत्कारुमुनितपोवनतरू-द्भतमधु तस्य गुणाः चक्षुरायुर्हितकारित्वं ।आमवातकफपित्तनाशित्वञ्च इति राजवल्लभः