| YouTube Channel

अरघट्टः (araghaTTaH)

 
E Bharati Sampat
Sanskrit
(पु) अरं शीघ्रं घट्यते चाल्यते असौ १.घटीयन्त्रम्, कूपात् जलनिःसारणार्थं चक्रम् २.अगाधकूपः। ‘कोट्टारघट्टहट्टाश्च’ अमरः।
Wordnet
Sanskrit
Synonyms:
अरघट्टः
noun
कूपात् जलनिःसरणार्थं घटीयन्त्रभेदः।
"सः अरघट्टेन कृषीं सिञ्चति।"
शब्दकल्पद्रुमः
Sanskrit
अरघट्टः,
पुं,
(अरं शीघ्रं घट्यते चाल्यतेऽसौ, अर +घट्ट + अच् ।) महाकूपः इत्यमरजटाधरौ
(कूपात्जलनिःसारणार्थं घटीयन्त्रभेदः कूपोपरिनिबद्ध-जलोत्तोलककाष्ठभेदः “स कदाचिद्दायादैरुद्वे-जितोऽरघट्टघाटिकामारुह्य कूपात् क्रमेण नि-ष्क्रान्तः” इति पञ्चतन्त्रे ।)