| YouTube Channel

अयनांशः (ayanAMzaH)

 
E Bharati Sampat
Sanskrit
(पुं) अयनस्य अंशः भागः। सूर्यगतिविशेषस्य भागः।
Wordnet
Sanskrit
Synonyms:
अयनांशः
noun
सूर्यस्य गतेः विशेषः भागः।
"लग्ने अयनांशस्य महत्त्वम् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अयनांशः,
पुं,
(अयनस्य अंशः भागः ।) सूर्य्यगतिवि-शेषस्य भागः अथायनांशलग्नसाधनं ।“लग्नं लग्नान्तरं कृत्वा अयनांशैः प्रपूरयेत् ।खानलैर्हरते भागं मिश्रयित्वा दिने दिने”
अस्यार्थः लग्नं रामोगवेदैरित्याद्युक्तं लग्नान्तरंकृत्वा यथा मेषलग्नं ४७ लग्नान्तरं वृषलग्नं४ १७ अत्रान्तरेण द्वयोराधिक्येन ३० त्रिंशत्पलंतञ्चायनांशैः पूरयेत्
अयनांशस्तु जातकार्णवोक्तः ।यथा, --“शाकमेकाक्षिवेदोनं द्विः कृत्वा दशभिर्हरेत् ।लब्धं हीनञ्च तत्रैव षष्ट्याप्ताश्चायनांशकाः”
इति लब्धस्थाने लब्धेन इति पाठः सिद्धान्त-रहस्ये
ते इदानीं चैत्रस्यैकादशाहे सम्भवात्ऊनविंशतिसंख्यकाः ते पुनःखानलैः ३० त्रिं-शता हरेत् भागलब्धिस्तु ऊनविंशतिः १९ ।तञ्च मेषलग्ने मिश्रयित्वा षट्पलाधिक-दण्डचतुष्टयात्मकं मेषलग्नं भवति एवं वृषादिक-मूह्यं किन्तु लग्नान्तरेण यत्राधिकं लभ्यते तत्रा-धिकं लग्नं भवति एवं यत्र लग्नान्तरेण हानि-स्तत्र लग्नेऽपि हानिरिति निष्कर्षः
*
इदानींस्पष्टज्ञानार्थं पद्येन लिख्यते बाणैवदो ५-ऽष्टवैदैः श्रुति ४८-रिभनयनैरिन्द्रियं २८-खाम्बुनेषु ४०-र्बाणो वेदानलैः ३४-खाग्निमिरिषु ३०-रिषुरङ्गाग्निने ३६षुःकुवेदै ४१-र्बाणोनागेन्दुभिस्तु १८श्रुतिरपि रसरामै ३६-र्गुणाः सप्तबाणैः ५७रामोऽश्वाद्भिस्तु ४७-सिद्धान्तजमतमयनांशा-दिदं लग्नमानं
एतञ्च तमोलिप्तादिदेशीयंप्रागुक्तायनांशसाधितं
*
अङ्गेन वेदो ६मेषः स्यात् वसुवेदैः सुखं ४८ वृषः मुनियुग्मैःशरो २७ द्वन्द्वः व्योमाब्धिबाण ४०-कर्कटः
वेदरामैः शरः ३४ सिंहः कन्याङ्कयुम्मपञ्चकः५ २९ तुला ऋषिरामपञ्च ३७-वृश्चिकःखाब्धिपञ्चकः ४०
नवचन्द्रबाण १९ --धनुर्वेदरामैः सुखं ३४ मृगः वसुपञ्च-त्रयः ५८ कुम्भः ऋषिवेदत्रयो ४७ झषः॥
*
शत्रुर्वेदश्च मेषो नवसुखसुख४-४९ -गौर्मृत्युयुम्मैः शिवास्यो २८ द्वन्द्यो-ऽङ्काप्यित्तवाणो ३९ हिमकरभवनो राम-रामैः कलम्बः ३३ सिंहः कन्याब्जरामैरिषु५ ३१-रिषुजसुखाग्नीषु ३४-यूकोऽलिपृथ्वी५ ४१ वेदेशास्योऽष्टपृथ्वीस्मरहरमुख १८कोदण्डमाहुर्वराहाः
बन्धू रामश्च वेदो ३४रविसुतभवनः पर्ब्बतः पञ्चरामः ५७ कुम्भोमीनश्च भुङ्क्ते गिरिसुखदहनं ४७ प्रत्यहंप्रक्रमेण अस्तं यामित्रराशावनुदिनमवसाद्यञ्चराजीवनाथो यद्यातिस्म द्रुतं स्यादुदयमनुदिवा-रात्रमाहुर्वराहाः
*
लग्नं लग्नान्तरं कृत्वेतिप्रकारान्तरेण यदुक्तं तदपि पद्येन लिख्यते यथा ।वेदोऽङ्गै ६-रिभवेदैः श्रुति ४८-रिषुरिभ-पक्षैः २८ कुवेदैश्च बाणो ४१ बाणोरामानलै ३३-रिन्द्रियमपि नवाक्षै २९रिषुः सप्तरामैः ३७ बाणः शून्याब्धिने ४०षुर्धृतिभि १८ -- रिषुगुणैरब्धि ३५-रष्टेष-णाग्नी ५८ रामोऽश्वाद्भिस्तु ४७ सिद्धान्त-जमतमयनांशादिदं लग्नमानं
“चैत्रस्यैकादशाहे तु विषुवारम्भणं यदा ।तदैतल्लग्नमानं हि ज्ञेयमन्यत्र साधनात्”
इति ज्योतिषसंग्रहः
(गतिः गमनं मार्गः ।“अगस्त्यचिह्नादयनात् समीपंदिगुत्तरा भास्वति सन्निवृत्ते” ।इति रघुवंशे स्थानं भूमिः समरसमार-म्भकाले योधानां यथाप्रधानं यूद्धभूमौ पूर्व्वाप-रादिदिग्विभागेनावस्थितिस्थानं सेनासन्निवेश-विशेषरूपव्यूहप्रवेशमार्गः ।“अयनेषु सर्व्वेषु यथाभागमवस्थिताः ।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व्व एव हि”
इति भगवद्गीता आश्रयः विश्रामस्थानं ।“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।ता यदस्यायनं पूर्व्वं तेन नारायणः स्मृतः”
इति मनुः गृहं वसतिः वासस्थानं शास्त्रं ।भावसाधनो ग्रन्थः ।“शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।ज्योतिषामयनञ्चैव वेदङ्गानि षडेव तु
छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ कथ्यते ।ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते”
इति कूर्म्मपुराणे ।)