| YouTube Channel

अम्लशाकः (amlazAkaH)

 
E Bharati Sampat
Sanskrit
(पुं) अम्लः शाकः यस्य १.चुक्रम्, शाकास्रम्*। ‘अम्लशाकस्त्वतीवाम्लो वातघ्नः कफदाहनुत्’ वैद्यकम् २.अम्लप्रधानः शाकाम्लः।
शब्दकल्पद्रुमः
Sanskrit
अम्लशाकः,
पुं,
(अम्लः शाको यस्य सः ।) अम्लद्रव्य-विशेषः तत्पर्य्यायः शाकाम्लं शुक्ताम्लं ३अम्लचुक्रिका चिञ्चाम्लं अम्लचूडः चिञ्चा-सारः अस्य गुणाः अतिशयाम्लत्वं वात-नाशित्वं कफदाहहारित्वञ्च समशर्करा-मिश्रितस्यास्य गुणः दाहपित्तकफार्त्तिनाशित्वं ।इति राजनिर्घण्टः
(यदुक्तं, --“अम्लशाकस्त्वतीवाम्लो वातघ्नः कफदाहनुत् ।साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत्”
)