| YouTube Channel

अम्लवेतसः (amlavetasaH)

 
E Bharati Sampat
Sanskrit
(पुं) अम्लवास्तूकः, चुक्रः। ‘चुक्रोऽम्लवेतसः शतवेध्यपि’ अमरः।
(पुं.) १. अम्लवास्तूकः २. अम्लरसयुक्तवृक्षविशेषः “सहस्रवेधी चुक्रोऽम्लवेतसश्शतवेध्यपि” - अमरः
Wordnet
Sanskrit
Synonyms:
अम्लवेतसः, रक्तसारः, राजाम्लः, वीरवेतसः, वेतसाम्लः, वैतसः, शुक्ता, वेधकः, वृद्धराजः, शुक्तिका, आम्लवेतसः, शुक्तिका, शङ्खद्राविन्, वेधिन्
noun
वल्लरीविशेषः।
"अम्लवेतसः पश्चिमेषु पर्वतेषु वर्धते।"
अमरकोशः
Sanskrit
Word: अम्लवेतसः
Root: अम्लवेतस
Gender: पुं
Number: all
Meaning(s):
kind of dock or sorrel
Bladderdock [Rumex Vesicarius - Bot.]
Shloka(s):
2|4|141|1 सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि। (वनौषधिवर्गः)
Synonym(s):
2|4|141|1 सहस्रवेधी (सहस्रवेधिन्) (पुं) musk, kind of sorrel, canella berries plant [Calamus fasciculatus - Bot.]
2|4|141|1 चुक्रः (चुक्र) (पुं)
2|4|141|1 अम्लवेतसः (अम्लवेतस) (पुं) kind of dock or sorrel, Bladderdock [Rumex Vesicarius - Bot.]
2|4|141|1 शतवेधी (शतवेधिन्) (पुं)
Related word(s):
परा_अपरासंबन्धः लता
जातिः लता
शब्दकल्पद्रुमः
Sanskrit
अम्लवेतसः,
पुं,
स्वनामप्रसिद्धः अम्लरसवृक्षविशेषः ।चुकाशाक इति ख्यात इति केचित् अम्ल-कुचाइ इति ख्यात इति केचित् इत्यमर-टीकायां भरतः
तत्पर्य्यायः अम्लः बेधी ३रसाम्लः आम्लवेतसः वेतसाम्लः अम्ल-सारः शतबेधी बेधकः भीमः १० भेदनः ११भेद्री १२ राजाम्लः १३ अम्लभेदनः १४ अम्ला-ङ्कुशः १५ रक्तसारः १६ फलाम्लः १७ अम्ल-नायकः १८ सहस्रबेधी १९ वीराम्लः २० गुल्म-केतुः २१ वराभिधा २२ शङ्खद्रावी २३ मांस-द्रावी २४ इति राजनिर्घण्टः
वराङ्गी २५ ।इति रत्नमाला
चुक्रः २६ इत्यमरः
तत्फल-गुणाः अत्यम्लत्वं कषायत्वं उष्णत्वं वायु-कफार्शःश्रमगुल्मनाशित्वं अरुचिहारित्वञ्च ।इति राजनिर्घण्टः
छागमांसलौहसूचीद्रव-कारित्वं चणकाम्लवत् गुणकारित्वञ्च इतिभावप्रकाशः
आनाहरोगनाशित्वं तत्पक्व-फलगुणाः दोषविनाशित्वं गुरुत्वं धारकत्वञ्च ।इति राजवल्लभः
तत्पर्य्यायगुणाः ।“स्यादम्लवेतसश्चुक्रः शतबेधी सहस्रजित् ।अम्लवेतसमत्यम्लं भेदनं लघु दीपनं
हृद्रोगशूलगुल्मघ्नं पित्तलोहितदूषणं ।रूक्षं विण्मद्यदोषघ्नं प्लीहोदावर्त्तनाशनं
हिक्कानाहारुचिश्वासकासाजीर्णवमिप्रणुत् ।कफवातामयध्वंसि छागमांसद्रवत्वकृत्
चणकाम्लगुणं ज्ञेयं लौहसूचीद्रवत्वकृत्” ।इति भावप्रकाशः
(“अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।गुणैस्तैरेव संयुक्तं भेदनन्त्वम्लवेतसम्”
इति चरकः
)