| YouTube Channel

अमुकं (amukaM)

 
शब्दकल्पद्रुमः
Sanskrit
अमुकं, त्रि, बुद्धिस्थत्वोपलक्षिततत्तत्धर्म्मावच्छिन्नं ।स्वस्ववृत्तिविशेषधर्म्मपुरस्कारेण तत्तद्वस्तुवाचकं ।फलना इति भाषा अदस्शब्दस्य अकि कृतेसोरोत्त्वाभावे अकोऽकारस्य उत्त्वे अमुक इतिभवति अमुक इत्यागमिकं इति क्रमदीश्वरः
यथा, --“अमुकामुकगोत्रैतत् तुभ्यमन्नं स्वधा नमः” ।इति श्राद्धतत्त्वं
(अभिवादये इति शब्दोच्चारणा-नन्तरं अमुकनामाहमस्मीति स्वं नाम परिकी-र्त्तयेत् इति कुल्लूकभदृः ।“संनिवेशं प्रमाणञ्च स्वहस्तेन लिखेत् स्वयम् ।मतं मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः”
इति नारदः ।)