अमङ्गल (amaGgala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishअमङ्गल - amaGgala - - inauspicious
अमङ्गल - amaGgala - - unlucky
अमङ्गल - amaGgala - - castor oil plant [ Ricinus Communis - Bot. ]
अमङ्गल - amaGgala - - castor oil tree
अमङ्गल - amaGgala - - evil thought
अमङ्गल - amaGgala - - inauspiciousness
अमङ्गल - amaGgala - - ill-luck
अमङ्गल - amaGgala - - evil
Wilson
EnglishApte
Englishअमङ्गल [amaṅgala] ल्य [lya], ल्य
Inauspicious, evil, ill
12.43
˚अभ्यासरतिम् 5.65
अमङ्गल्यं शीलं तव भवतु नामैकमखिलम् Puṣpadanta.
Unlucky, unfortune. -लः The castor-oil tree (एरण्ड). -लम् Inauspiciousness, ill-luck
evil
. used in dramatic literature
शान्तं पापं प्रतिहतम- मङ्गलम्
God forbid.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiअमङ्गल
"वि*, ब*स*, न*त*" - -
"अशुभ, बुरा, अकल्याणकर "
अमङ्गल
"वि*, ब*स*, न*त*" - -
"भाग्यहीन, दुर्भाग्य पूर्ण"
अमङ्गलः
- -
एरण्ड का वृक्ष
अमङ्गलम्
- -
"अशोभनीयता, दुर्भाग्य, अकल्याण, प्रायः नाट्य-शास्त्र मे प्रयुक्त"
Shabdartha Kaustubha
Kannadaअमङ्गल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹರಳುಗಿಡ
अमङ्गल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಶುಭ /ಅರಿಷ್ಟ
प्रयोगाः - > "रामाभियायिनां तेषां तदेवाभूदमङ्गलम्"
उल्लेखाः - > रामा०
अमङ्गल
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅಶುಭವಾದ /ಕೆಟ್ಟದಾದ
प्रयोगाः - > "अमङ्गलाभ्यासरतिं विचिन्त्य तम्"
उल्लेखाः - > कुमा० ५-६५
L R Vaidya
EnglishWordnet
Sanskrit अशुभ, अमङ्गल
यद् शुभं नास्ति।
"मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।"
अशुभ, अमङ्गल
undefined
अशुभ, अमङ्गल
शब्दकल्पद्रुमः
Sanskritअमङ्गलं, (नास्ति मङ्गलं शुभं यस्मात् तत् ।)अशुभसूचकं । तद्यथा --“सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसङ्ख्यकैः ।ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ॥
ययौ तथापि समरं न जगाम गृहं पुनः ।मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरां ॥
कृष्णवस्त्रपरीधानामपरां विधवामपि ।मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टिनीं ।पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ।कुम्भकारं तैलकारं व्याधं सर्पोपजीविनं ॥
कुचेलमतिरूक्षाङ्गं नग्नं काषायवासिनं ।अङ्गविक्रयिणञ्चैव कन्याविक्रयिणं तथा ॥
चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ।सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषं ॥
श्राद्धपात्रञ्च पिण्डञ्च मोटकं वानरं तथा ।देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनं ॥
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकं ।कुशपुत्तलिकाञ्चैव शवदाहनकारिणं ॥
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च ।कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणं ॥
दक्षिणे च शृगालञ्च कुर्व्वन्तं भैरवं रवं ।कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलं ॥
कलहञ्च विलापञ्च विलापकारिणं जनं ।अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणं ॥
मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनं ।पुंश्चलीपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनं ॥
देवतागुरुविप्राणां वस्तुवित्तापहारिणं ।दत्तापहारिणं दस्युं हिंसकं सूचकं खलं ॥
पितृमातृविरक्तञ्च द्विजाश्वत्यविधातिनं ।सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनं ॥
विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकं ।गुरुदेवद्विजानाञ्च निन्दकं स्वाङ्गघातकं ॥
जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्द्दयं ।व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकं ॥
गलितव्याधिगात्रञ्च काणं वधिरमेव च ।पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा ॥
क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा ।मूत्रं पुरीषं श्लेष्माणं कन्थिनं नृकपालिनं ॥
झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनं ।वृकञ्च शूकरं गृव्रं श्येनं कङ्कञ्च भल्लुकं ॥
पाशञ्च शुष्ककाष्ठञ्च बायसं गन्धकं तथा ।अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रोपजीविनं ॥
वैद्यञ्च रक्तपुष्पञ्चैवौषधं तुषमेव च ।कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणं ॥
दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि ।मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरं ॥
वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ।तथापि राजा निःशङ्को दर्शं दर्शममङ्गलं” ॥
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥
वाचस्पत्यम्
Sanskritअमङ्गल नास्ति मङ्गलं प्रयोजनं यतः । एरण्डवृक्षे । ६ व० ।कशलशून्ये । त० । मङ्गलभिन्ने । अमङ्गलञ्चमङ्गलविरोधिवस्तु । मङ्गलञ्च अभिप्रेतार्थसिद्धिर्मङ्गलमित्युक्तलक्षणं तद्विरोधि अनभिप्रेतार्थसिद्धिः । तथा च अनिष्टदुःस्वावाप्तिरमङ्गलं मङ्गलस्य हेतोर्विनायकस्तवपाठादेर्म-ङ्गलत्ववत् अनिष्टप्राप्तिसाधनस्याप्यमङ्गलत्वम् । अमङ्गलसाधनं च द्विविधं लौकिकमलौकिकञ्च । लौकिकमिष्ट-वियोगादि । अलौकिकन्तु अनिष्टसूचकत्वात् अनिष्ट-साधनम् न तु कारकम् “गोचरे वा विलग्ने वा येग्रहारिष्टसूचकाः इत्युक्तेः “उत्पातेन ज्ञापिते चेतिवार्त्तिकोक्तेश्च । अलौकिकमपि त्रिविधं भौमं दिव्यमान्त-रिक्षञ्च । तानि च उत्पातशब्दे वक्ष्यन्ते । अमङ्गलसूच-कानि लिङ्गानि च कानिचित् साधारणानि कानिचिच्चा-साधारणानि नेत्रस्पन्दादीनि तत्र साधारणानि कतिचित्संगृह्य दर्श्यन्ते यथा भा० भी० प० । “तथेमानि नि-मित्तानि भयायाद्योपलक्षये ॥
श्येना गृध्राश्च काकाश्चकङ्काश्च सहिता वकैः । संपतन्ति नगाग्रेषु समवायांश्चकुर्व्वते ॥
अभ्यग्रञ्च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥
निर्द्दयञ्चाभिवाशन्तो भैरवा भयवेदिनः । कङ्काःप्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥
उभे पूर्वा-परे सध्ये नित्यं पश्यामि भारत! । उदयास्तमने सूर्य्यंकबन्धैः परिवारितम् ॥
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाःसविद्युतः । त्रिवर्ण्णाः परिघाः सन्धौ भानुमन्तमवारयन् ॥
ज्वलितार्केन्दुनक्षत्रं निर्व्विशेषदिनक्षयम् । अहोरात्रंमया दृष्टं तद्भयाय भविष्यति ॥
अलक्ष्यः प्रभया हीनःपौर्ण्णमासीञ्च कार्त्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च पद्मवर्ण्णेनभस्तले ॥
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।राजानो राजपुत्त्राश्च शूराः परिघबाहवः ॥
अन्तरीक्षेवराहस्य वृषदंशस्य चोभयोः । प्रणादं युध्यतो रात्रौ रौद्रंनित्यं प्रलक्षये ॥
देवताप्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।वमन्ति रुधिरञ्चास्यैः स्विद्यन्ति प्रपतन्ति च ॥
अनाहतादुन्दुभयः प्रणदन्ति विशाम्पते । अयुक्ताश्च प्रवर्त्तन्ते क्षत्त्रि-याणां महारथाः ॥
कोकिलाः शतपुत्त्राश्च चाषां भाषाःशुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥
गृहीतशस्त्राः क्रोशन्ति वर्म्मिणो वाजिपृष्ठगाः । अरुणोदयेप्रदृश्यन्ते शतशः शलभव्रजाः ॥
उभे सन्ध्ये प्रकाशेतेदिशां दाहसमन्विते । पर्ज्जन्यः पांशुवर्षी च मांसवर्षी चभारत! ॥
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मताअरुन्धती तयाप्येष वशिष्ठः पृष्ठतः कृतः ॥
रोहिणीं पीड-यन्नेष स्थितो राजन्! शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्यभविष्यति महद्भयम् ॥
अनव्भ्रे च महाघोरः स्तनितःश्रूयते स्वनः । वाहनानाञ्च रुदतां निपतन्त्यश्रुविन्दवः ॥
खरा गोपु प्रजायन्ते रमन्ते मातृभिः सुताः । अना-त्तेवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥
गर्भिण्यो राज-पुत्रांश्च जनयन्ति विभीषणान् । क्रव्यादाः पक्षिणश्चापिसहाश्रन्ति परस्परम् ॥
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादाद्विमेहनाः । द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽ-शिवाः ॥
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्द्दंष्ट्रा विषाणिनः ॥
तथैवान्याश्चदृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् । वैनतेयान् मयूरांश्चजनयन्त्यः पुरे तव ॥
गोवत्सं बडवा सूते श्वा शृगालंमहोपते! । कुक्कुटान् करभांश्चैव शुकांश्चाशुभवादिनः ॥
स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः । जात-मात्राश्च नृत्यन्ति गायन्ति प्रसहन्ति च ॥
पृथग्जनस्य सर्वस्यक्षुद्रकाः प्रहसन्ति च । नृत्यन्ति परिगायन्ति वेदयन्तोमहद्भयम् । प्रतिमाश्चालिखन्त्येते सशस्त्राः कालचोदिताःअन्योन्यमभिधावन्ति शिशवो दण्डपाणयः । अन्योन्यमव-मृद्नन्ति नगराणि युयुत्सवः ॥
पद्मोत्पलानि वृक्षेषु जायन्तेकुमुदानि च । विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति ।अभीक्ष्णं कम्पते भृमिरर्कं राहुरुपैति च । श्वेतो ग्रह-स्तथा चित्रां समतिक्रम्य तिष्ठति । अभावं हि विशेषेणकुरूणां तत्र पश्यति ॥
धूमकेतुर्म्महाघोरः पुष्यञ्चाक्रम्यतिष्ठति । सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥
मघा-स्वङ्गारको वक्रः श्रवणे च वृहस्पतिः । भाग्यं(मघाम्)नक्ष-त्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥
शुक्रः प्रौष्ठपदे पूर्व्वे समा-रुह्य विरोचते । उत्तरे तु परिक्रम्यसहितः समुदीक्ष्यते ॥
श्वेतो ग्रहः प्रज्वलितः सधूम इव पावकः । ऐन्द्रं तेजस्विनक्षत्रं ज्जेष्ठामाक्रम्य तिष्ठति ॥
ध्रुवं प्रज्वलितं घोरमपसव्यंप्रवर्त्तते । रोहिणीं च पीडयत उभौ च शशिभास्करौ ॥
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः । वक्रानुवक्रंकृत्वा च श्रवणं पावकप्रभः । ब्रह्मराशिं समावृत्य लोहि-ताङ्गो व्यवस्थितः ॥
सर्व्वसस्यपरिच्छन्ना पृथिवी सस्यशा-लिनी । पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥
प्रधानाः सर्व्वलोकस्य यास्वायत्तमिदं जगत् । ता गावःप्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥
निश्चेरुरर्चिषश्चापात्खड्गाच्च ज्वलिनो भृणम् । व्यक्तं पश्यन्ति शस्त्राणि सं-ग्राम समुपस्थितम् ॥
अग्निवर्ण्णा यथा भासः शस्त्राणा-मुदकस्य च । कवचानां ध्वजानाञ्च भविष्यति महान्क्षयः ॥
पृथवी शोणितावर्त्ता ध्वजोडुपसमाकुला । कुरूणांवैशसे राजन्! पाण्डवैः सह भारत! ॥
दिक्षु प्रज्वलिता-स्याश्च व्याहरन्ति मृगद्विजाः । अत्याहितं दर्शयन्तो वेदयन्तिमहद्भयम् ॥
एकपक्षाक्षिचरणः शकुनिः खचरो निशि ।रौद्रं नदति संरव्धः शोणितं छर्द्दयन्निव ॥
शस्त्राणि चैवराजेन्द्र! प्रज्वलन्तीव संप्रति । सप्तर्षीणामुदाराणां सम-वच्छाद्यते प्रभा ॥
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलि-तावुभौ । विशाखायाः समीपस्थौ वृस्पतिशनैश्चरौ ॥
चन्द्रा-दित्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम् । अपर्व्वणि ग्रहंयातौ प्रजासक्षयमिच्छतः ॥
अशोभिता दिशः सर्व्वाः पां-शुवर्षैः समन्ततः । उत्पातमेघा रौद्राश्च रात्रौ वर्षन्तिशोणितम् ॥
कृत्तिका पीड्यते तीक्ष्णैर्नक्षत्रं पृथिवीपते! ॥
अभीक्ष्णं वाता वायन्ते धूमकेतुमवस्थिताः । विषमं जन-यन्त्येत आक्रन्दजननं महत् ॥
विषु छत्रेषु सर्व्वेषु नक्ष-त्रेषु विशाम्पते! गृघ्रः संपतते दीर्घः जनयन् भयमुत्तमम् ॥
चतुर्द्दशीं पञ्चदशीं भूतपूर्व्वां च षोडशीम् । इमान्तुनाभिजानामि भूतपूर्व्वां त्रयीदशीम् ॥
चन्द्रसूर्य्यावुभौग्रस्तावेकमासे त्रयोदशीम् । अपर्व्वणि ग्रहावेतौ प्रजाःसंक्षययिष्यतः । शोणितैर्व्वक्तसम्पूर्ण्णा अतृप्तास्तत्र राक्षसाः ।प्रतिस्रोतोवहा नद्यः सरितः शोणितोदकाः । फेनाय-मानाः कूपाश्च कूर्द्दन्ति पृषभा इव ॥
पतन्त्युल्काः सनि-र्घाताः शक्राशनिसमप्रभाः । अद्य चैव निशां व्युष्टामु-दये भानुराहरत् ॥
ज्ज्वलन्तीभिश्च वह्वीभिरुल्काभिःसर्व्वतोदिशम् । अन्योन्यमवमृष्यद्भिस्तत्र चोक्तं महर्षिभिः ।भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥
कैलास-मन्दराभ्यान्तु तथा हिमवतो गिरेः । सहस्रशो महाशब्दाःशिखराणि पतन्ति च ॥
महाभूता भूमिकम्पे चत्वारःसागराः पृथक् । वेलामुद्वर्त्त यन्तीव क्षोभयन्तो वसुन्धराम् ।वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ॥
अभग्माःसुमहावातैरशनीभिः समाहताः । वृक्षाः पतन्ति चैत्याश्चग्रामेषु नगरेषु च । नीललोहितपीतश्च भवत्यग्निर्हुतोद्विजैः । वामार्चिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम् ॥
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते! । धूमं ध्वजाःप्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ॥
मुञ्चन्त्यङ्गारवर्षञ्च भेर्यश्चपटहास्तथा ॥
शिखराणां समृद्धामामुपरिष्टात् समन्ततः ।वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः । पक्वापक्वेतिसुभृशं वावाश्यन्ते वयांसि च ॥
निलीयन्ते ध्वजाग्रेषु क्ष-याय पृथिवीक्षिताम् ॥
ध्मायन्तः प्रकिरन्तश्च व्याला वेप-युसंयुताः । दीनास्तुरङ्गमाः सर्वेवारणाः सलिलाश्रयाः” इतिअसाधारणाणि अमङ्गलानि च दर्शितानि यधा “मुक्तकेशींछिन्ननासां रुदतीञ्च दिगम्बराम् । कृष्णवस्त्रपरीधाना-मपरां विधवामपि । मुखदुष्टां योनिदुष्टां व्याधिताञ्चैवकुट्टिनीम् । पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ।कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् । कुचेलमतिरुक्षाङ्गं नग्नं काषायवासिनम् । अङ्गविक्रयिणञ्चैव कन्याविक्रयिणं तथा । चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ।सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम् । श्राद्धपात्रञ्चपिण्डञ्च मोटकं वानरं तथा । देवलं वृषवाहञ्च शूद्र-श्राद्धान्नभोजिनम् । शूद्रान्नपाचकं शूद्रयाजकं ग्राम-याजकम् । कुशपुत्तलिकाञ्चैव शवदाहनकारिणम् ।शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च । कार्पासं कच्छपंचूर्णं कुक्कुरं शब्दकारिणम् । दक्षिणेन शृगालञ्च कुर्वन्तंभैरवं रवम् । कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम् ।कलहञ्च विलापञ्च विलापकारिणं जनम् । अमङ्गलं वदन्तञ्चरुदन्तं शोककारिणम् । मिथ्यासाक्षिप्रदातारं चौरञ्च नर-घातिनम् । पुंश्चलोपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनम् ।देवतागुरुविप्राणां वस्तुवित्तापहारिणम् । दत्तापहारिणंदस्युं हिंसकं सूचकं खलम् । पितृमातृविरक्तञ्च द्विजा-श्वत्थविघातिनम् । सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणंजनम् । विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकम् । गुरु-देवद्विजानाञ्च निन्दकं स्वाङ्गघातकम् । जीवानां घातक-ञ्चैव स्वाङ्गहीनञ्च निर्द्दयम् । व्रतोपवासहीनञ्च दीक्षाहीनंनपुंसकम् । गलितव्याघिगात्रञ्च काणं बधिरमेव च ।पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा । क्षिप्तं वमन्तंरुधिरं महिषं गर्द्दभं तथा । मूत्रं पुरीषं श्लेष्माणं कन्थि-नं नृकपालिनम् । झञ्झावातं रक्तदृष्टिं वात्याञ्च वृक्ष-पातनम् । वृकञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम् ।पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा । अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रोपजीविनम् । वैदञ्च रक्तपुष्पञ्चैवौषधं तुष-मेव च । कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम् ।दुर्गन्धवातं दुःशब्दे राजा संप्राप वर्त्मनि । मनश्च कुत्सितंप्राणः क्षुभितश्च निरन्तरम् । वामाङ्गस्पन्दनं देहज्यरो राज्ञोबभूव ह । तथापि राजा निःशङ्कं दर्शंदर्शममङ्गलम्” इतिब्रह्म० नि० निएवमन्यान्यपि साधारणासाघारणानि निमि-त्तानान्युन्नेयानि “अमङ्गलाभ्यासरतिं विचिन्त्य तम्” कुमा०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
