| YouTube Channel

अभ्युद्यतः (abhyudyataH)

 
E Bharati Sampat
Sanskrit
(वि) अभि+उद्+यम(उपरमे)+क्तः(कर्मणि) ‘निष्ठा’ ३.२.१०२। १.उपरि उत्थितः उत्थापितः वा २.अयाचितोपनीतः फलादिः। ‘एधोदकं मूलफलमन्नमभ्युद्यतं यत्’ मनुः४.२४७। ३.अभि+उद्+यम+क्तः(कर्तरि) ‘गत्यर्थाकर्मक०’ ३.४.७२। कार्यासक्तः, उत्साहेन कार्ये निरतः। ‘अभ्युद्यतस्य क्रमितुं जवेन गाम्’ माघः१२.७०। ४.प्रवृत्तः, प्रयतितः, प्रयत्नशीलः। ‘चण्डी चण्डं हन्तुमभ्युद्यता माम्’ मालवि०३.२१। ५.अभिवृद्धः। ‘कुलमभ्युद्यतनूतनेश्वरम्’ रघुः८.१५। ६.पुरतः दृश्यमानः। ७.समीपे आगन्ता