| YouTube Channel

अभीवर्त्त (abhIvartta)

 
वाचस्पत्यम्
Sanskrit
अभीवर्त्त
पु०
अभिवर्त्तन्ते गच्छन्ति स्वर्गमनेन अभि + वृत--करणेघञ् ब्रह्मसामनि तच्च “उदञ्चमृतीषाहमित्यस्यां योनावुत्पन्नं ब्राह्मणाच्छंसिनऋत्विगभेदस्य पृष्ठ्यस्त्रोत्रम् “अभी-वर्त्तोब्रह्मसाम भवति अभीवर्त्तेन वै देवाः स्वर्गं लोकमभ्य-वर्त्तन्त यदभ्यवर्त्तन्त तदभीवर्त्तो ब्रह्मसाम भवति स्वर्गस्यलोकस्याभिवृत्त्यै” ता० ब्रा० “अभिवृत्तिसाधनत्वादस्यसाम्रोऽभीवर्त्तसंज्ञा निष्पन्ना” भा० “तदभीवर्त्तस्याभीवर्त्त-त्वमिति सांख्यायनसू० एतदभोवर्त्ताख्यं सान पूर्व्वस्मिन्पक्षसि विद्यमानानामाभिप्लविकानामह्नां स्वरसान्नां माध्य-न्दिने सवने यजमानान्वारब्धेन ब्रह्मणा पृष्ठस्त्रोत्रतयाकर्त्तव्यं, तथा उत्तरस्मिन् पक्षसि “इन्द्रक्रतुन्न आभरे” त्येकएव प्रगाथः ब्रह्मसामाश्रयः कर्त्तव्यः प्रत्यहं तस्मिन्प्रगाथे अन्यदन्यत्साम ब्रह्मणा पृष्ठ्यस्त्रोत्रार्थं कर्त्तव्यम्इति” ता० ब्रा० भा० संवत्सरे “अभीवर्त्तंःसविंशः” यजु० १४, २३ अभिवर्त्त्यते आबर्त्त्यतइत्यभोवर्त्तः सामावृत्तिरूपः विंशः स्तोमः यद्वा अभि-वर्त्तयत्यावत्त यति सर्वाणि भूतानीत्यभीवर्त्तः सवत्सरः“उपसर्गस्य घञ्यमनुष्ये बहुलमिति पा० दीर्घः ।द्वादशमाससप्तर्त्तुसंवत्सररूपविंशतिसङ्ख्यया सहितःसविंशः एष सविंशस्तोमः तमुपदधातीत्यर्थः“संवत्सरो वा अभीवर्त्तः इति संवत्सरो हि सर्वाणिभूतान्यभिवर्त्तते” श्रुतिः वे० दी० अभीवर्त्तेनेत्यादिके सूक्ते“अथैनं सारयमाणमुपारुह्याभीर्वतं वाचयति” आश्व०गृ० अभिवृत्तिसाधने हविर्भेदे “अभीवर्त्तेनहविषा येनेन्द्रो अभिवावृते” ऋ० १०, १७४,