| YouTube Channel

अभिशस्तः (abhizastaH)

 
E Bharati Sampat
Sanskrit
(वि) अभिशस्यते स्म अभि+शंसु(स्तुतौ)+क्तः। ‘निष्ठा’ ३.२.१०२। १.मिथ्यापवादितः। ‘अभिशस्तस्य षण्डस्य पुंश्चल्या दाम्भिकस्य शुक्तं पर्युषितं चैव’ मनुः४.२११। २.हिंसितः। ३.शप्तः। (न) अभि+शंसु+क्तः(भावे) ‘नपुं० क्तः’ ३.३.११४। ४.शापः। ५.हिंसा
Wordnet
Sanskrit
Synonyms:
अभियुक्तः, आरोपी, अभिशस्तः, अभिशस्तकः, अभ्याख्यातः, व्यवहाराभिशस्तः, शोध्यः
noun
यस्मिन् कोऽपि अभियोगः अस्ति।
"सः हत्यायाः अभियुक्तम् अक्षाम्यत्। "
शब्दकल्पद्रुमः
Sanskrit
अभिशस्तः, त्रि, (अभि + शन्स + क्तः ।) परस्त्रियांपरपुरुषे वा मैथुनं प्रति मिथ्यादूषितः मैथुनंप्रति आहूतः इति केचित् उपपन्नपातकः ।इति केचित् मिथ्यादूषितमात्रं इति केचित् ।इति भरतः
तत्पर्य्यायः आक्षारितः क्षारितः३ इत्यमरः
(प्राप्तापवादः अभिपक्रुष्टः ।“वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।नाग्निर्ददाह रोमाणि सत्येन जगतः स्पृशः”
इति मनुः विनिन्दितः विगर्हितः पातक-कर्त्ता ।“पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयीः” इति मनुः ।)