| YouTube Channel

अभिरामः (abhirAmaH)

 
E Bharati Sampat
Sanskrit
(वि) अभिरमते अस्मिन् अभि+रमु(क्रीडायाम्)+घञ् ‘हलश्च’ ३.३.१२१। १.मनोहरः। ‘मनोहरं वल्गु कान्तमभिरामबन्धुरे’ हैमः। ‘राम इत्यभिरामेण वपुषा तस्य चोदितः’ रघुः१०.६७। ***आनन्दकरः। २.मधुरः। ‘मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः’ रघुः १.३९ ।३. (क्रि.वि) ३.सुन्दरतया ‘ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः’ शाकु०१.७।
शब्दकल्पद्रुमः
Sanskrit
अभिरामः, त्रि, (अभिरमते मनोऽत्र, अभि + रम् +आधारे घञ् ।) रुचिरः सुन्दरः इति हेम-चन्द्रः
(मनोहरः मनोज्ञः रमणीयः आन-न्दकरः ।“मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” ।इति रघुवंशे ।)