| YouTube Channel

अब्दप (abdapa)

 
Shabdartha Kaustubha
Kannada
अब्दप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವರ್ಷಾಧಿಪತಿ
निष्पत्तिः - > पा (रक्षणे) - "कः" (३-२-३)
व्युत्पत्तिः - > अब्दं पाति
Indian Epigraphical Glossary
English
abdapa (IA 16), the entrance of the sun into the
Aries (Meṣa).
वाचस्पत्यम्
Sanskrit
अब्दप
पु०
अब्दं पाति पा--क वर्षाधिपे तदानयनप्रकारश्चसि० शि० दर्शितः यथा “अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात्कराभ्यां, कृतैः, पावकैः, संगुणाच्च भुजङ्गैरवाप्तं फलंस्याद्दिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्”अत्रोपपत्तिः एकस्मिन् रविवर्षे सावनाहाः प्राक्प्रतिपादिताः ३६५ १५ ३० २२ ३० एतदष्टभिःसवर्णितं कार्य्यम् ततोऽनुपातः यद्यष्टभिर्वर्षैरेताव-द्दिनाद्यं तदा कल्पगतैः किमिति फलं दिनाद्यम् ।तदनष्टं संस्थाप्यम् ततो गताब्दैर्युतं सदब्दपतिःस्यादिति यदुक्तं तद्युकम् यतः पञ्चषष्ट्यधिकशतत्रयेमप्तभिर्भक्ते एकोऽवशिष्यते अत एकगुणाब्दसंख्या तस्मिन्दिनाद्ये निक्षिप्ता तस्मिन् सप्ततष्टेऽर्काद्योऽब्दपतिः ।यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् ।ताजिकोक्ते वर्षाधिपतौ तदानयनप्रकःरश्च जन्मलग्न-पतिवर्षलग्नाषिपतिमुन्यहाधिपतित्रिराशिपतीनां दिवा-सूर्य्याक्रान्तराशिपतेः रात्रौ चन्द्राक्रान्तराशिपतेश्चैषां पञ्चा-धिकःरिणां मध्ये द्वादशवर्गीबलेन पञ्चवर्गीबलेन वीपेतःलम्नदर्शी वर्षाधिपतिः बलसाम्ये दृष्ट्यतिरेकात्, तत्रापिसाम्ये वृष्ट्यभावे मुथहेश्वरः, वर्षाधिपः “अब्दपबलस्यविचारणेत्थम्” नी० ता० अब्दपत्यादयोऽप्यत्र
अब्दप
पु०
अब्दपवत् वर्षाधिपे अब्दपशब्दे विवृतिः अब्दपत्यादयोऽप्यत्र